________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
ताल्वोष्ठपुटव्यापारो यत्र दृश्यते तत्रैव वातशब्दनिमित्तकशब्दो नियमेन श्रूयते । तस्मात्तयोस्संयोगः समवायकारणमिति द्योत्यते । ताल्वोष्ठपुटव्यापारहेतुककार्यस्यास्यसंयोगस्य सिरादीनां वर्णभेदस्य निमित्तकारणत्व झाप्यते । वर्णभेदात् शब्दविषयकक्षानभेदकार्य विचित्रहेतुप्रतिपादकसामग्रीजन्यं कारणस्य क्रियाविशेषमात्रवलक्षण्यतया विचित्रवर्णक्षापकत्वमनुभूयते । सोऽनुभवः सामग्रीभेदाद्भवतीति देशतः कालतः घटनारूपकार्यविशेषतः सिरादिबाहुल्यसंयोगात् हीनाल्पतरोश्चरितस्वरादिवर्णभेदशानं तत्सामग्रीभेदात् भवतीति यत्र यस्संबन्धवर्णः स एव बौसिष्टक ? इत्यभ्युपगमात् श्रोत्राकाशस्य व्यवधानसामीप्यदेशभेदजातमाहिना उच्चोच्चतरोच्चतमोञ्चारणभेदात्तत्तद्वर्णात्मकशब्दभेदो शायते । शब्दभेदबोधकवाक्यं सिराभेदोद्भववर्णभेदबोध ककार्य च पक्षद्वयं गृहीतम् । साध्य तु तदुश्चारणहेतुभूतवर्णभेदविषयकक्षानपूर्व सिरादिभेदजन्यवर्णविषकज्ञानात्मकत्वात् भेर्यादिशब्दवत् ।
अत्र शारीरवचन-- दोषधातुमलादीनां ऊष्मेत्यात्रेयशासनम् । तदधिष्ठानमन्नस्य ग्रहणाद्रहणी मता ॥ सैव धन्वन्तरिमते कला पित्तधराया। .
आयुरारोग्यवीयॊजो भूतधात्वनिपुष्टये ॥ एतद्वचनानुसारेण तत्तत्प्रदेशोद्भववर्णशापिका ग्रहणीकला । तत्तद्रसादनाजातवर्णादिभेदज्ञानं तत्तद्रसद्रव्यपाकशातपोषकैककार्यविषयकं रसविरसादनजातदोषादोषशापकं उच्चोच्चतरशब्द. भेदविषयकज्ञानगोचरजनकत्वात् । तत्तद्रसाहाराद्रसजातफल
For Private And Personal Use Only