SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 67 पुटघट्टनेन एतादृशवर्णनिमित्तमेतत् इति तजनकहेतुभूतकारणकर्मणां तजन्यशब्दानां व्याप्तिं गृहीत्वा तत्तद्वर्णजनककर्म करो. तीति तत्तत्कारणानुगुणकार्यमेव उत्पद्यते । सरन्ध्रकाभ्यन्तरधराविंशत्सिरावृतास्सन्तः हस्ताङ्गष्ठताडनेन प्रेरिता रणसप्तस्वरादिभेदाः पृथक्पृथग्विभिन्नास्सन्तः श्रुतिमण्डलाः स्वरव्यक्तोत्तरोत्तरतारतम्यं भूत्वा होनमध्यमोत्तमाः कर्मकरणात्तत्तदनुस्वरितस्वराश्श्रूयन्ते । तद्वदेव शारीरयन्नं विज्ञाय तत्तद्वर्णानां व्याप्तिं गृहीत्वा तत्तद्वात्मकाः शब्दावच्छेदकप्रयत्नव्यापारकर्मकरणात्तत्तत्स्वराधिष्ठितवर्णात्मकारशब्दाः तत्तद्धेतुभूतसिराभिः श्रूयन्त इत्याह-सिरेति। सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यते ॥ ननु शब्दगुणवदाकाशमिति आकाशस्यैव शब्दजनकत्वम् । कर्णशष्कुल्यवच्छिन्नाकाश एव शब्दो भासते, नान्यत्र । ताल्वोठपुटव्यापारादिकं निमित्तकारणम् । न तावत्सिराणां समवायत्वं तासां शरीरावयवाकारजनकत्वम् । ता न शब्दबोधकाः । पाबकस्य दुष्टत्वेन धातुपोषकत्वे भ्रमः । तस्मात्पूर्वोक्तरीत्या सूत्रन्याख्यानं न सङ्गतमिति । अत्रोच्यते---आकाशस्यैकत्वेन अनेकवर्णभेदजनककार्यस्य सामग्रयभावात् । शरीरान्तस्स्थितधातु. सञ्चारितवायुः अत्र न विवक्षितः, किन्तु ताल्वोष्ठपुटव्यापाराझाङ्गसङ्घटनाजातशब्दकार्यहेतुकपवनश्शब्दजनक इति वक्तुं शक्यते । ताल्वोष्ठपुटव्यापाराङ्गाङ्गसंसर्गाजातपवनात् योग्यं भवतीति । यावत्कालविषयकोपाधिकपवनजातशब्दान्तरारम्भकः क. दम्बमुकुळन्यायेन वा वीचीतरङ्गन्यायेन वा शब्दान्तरं जायते । तस्मादब्यसंयोगजातपवनस्य समवायकारणत्वं वक्तुं शक्यते । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy