________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
72
आयुर्वेदस्त्रे
“धन्वन्तरिस्तु त्रीण्याह सन्धीनां च शतद्वयम् । एतद्वचनमारभ्य न हि धन्वन्तरिमते । "तदधिष्ठानमन्नस्य ग्रहणात् ग्रहणी मता।
सैव धन्वन्तरिमते कला पित्तधराया ॥" एतावत्प्रतिपादितार्थ सद्वर्णात्मकपदार्थप्रवृत्तिविषयकलानगोचरशानकार्योद्वोधकसिराः सप्तशतसङ्ख्याकाः ता न वेध्या इति शापनार्थ "सैव धन्वन्तरिमते" इति शारीरे प्रतिपादितम् । तदे. वायुर्वेदप्रतिपादितार्थमिदमिति विविच्य दर्शनात् 'सैव' इत्युक्तम् आमपित्तं पक्त्वा पाचककला सुप्रसन्ना सती तदधिष्ठानवर्णानां शापकत्वात् ग्रहणीत्यभिधीयते । अविरुद्धरसद्रव्यादनाजातकला प्रबला सती सुवर्णसुस्वरसुपदसुवाक्यबोधिका। कर्णशकुल्यवच्छिन्नाकाशस्य एतेन आयुरारोग्यतेजोधातुप्रतिरादिका भवतीत्यर्थः । अत्र सुत्रवचन
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत् । दोषाः प्रदुधा रुधिरं प्रपन्ना तावद्धिताहारविहारभाक्स्यात् ॥ नात्युष्णशीने लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् । तदा शरीरं ह्यनव* स्थितास्रमग्निर्विशेषादिति रक्षणीयः॥
सव्याधिनिदानहेतुभूतस्य शब्दोचारणावगम्य तयाधिविधिरिति ज्ञानमुपलभ्य चिकित्सां कारयेदिति । यद्यन्तस्स्थितविकारं शब्दोचारणादेव ज्ञात्वा साध्यविधि विज्ञाय कारयेदिति तात्पर्यम् । स्वरास्वरं जीर्णहेतुकसिराभिवोधककार्य दुष्टासृग्विमोचनद्वारा सिराया हेतुत्वं प्रतिपादितमित्यर्थः । रिक्तातिरिक्ता
- * स्थितासगग्नि, अष्टाङ्गहृदयम्, सू. ६२.
For Private And Personal Use Only