________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
आत्मतत्त्वविवेके सटीके
प्रमाणाभावादिति । योग्यानुपलब्धेोग्यव्यक्रित्तिजात्यन्तराभाव Vव सिद्धो यत इत्यर्थः । दोषान्तरमाह। कल्पनेति । बोजत्वेनैव प्रत्यक्षपिनाकर कारणतावच्छेदे सम्भवति तदर्थमतौन्द्रियजातिकल्पना न सभातीत्यर्थः । दोषान्तरमाह। अतीन्द्रियेति। बाह्या-- लोकादेरेव कुर्वद्रपात् साक्षात्कारोपपत्ताविन्द्रियकल्पनापि न स्यादित्यर्थः । दोषान्तरमाह । विकल्पेति । शालित्वादिना परापरभावादिविकल्प जाति)विशेषस्यानुपपत्तेरित्यर्थः। दोषान्तरमाह । विशेषस्यति । जोजत्वमामान्यस्य क्वचित्प्रयोजकत्वमावश्यकं तच्च निरूप्यमाणमङ्करं प्रत्येव स्थादित्यर्थः ।
भगौ ० टौ । किन्नामेति। बीजजातीयं कारणमित्यभयवादिसिद्धम् । किन्त्वङ्करानुपहितवृत्तित्वाद् बोजत्वं न कारणतावच्छेदकमपि तु कुर्वट्रपत्वमिति तन्निरासं विना नैकरमतानिश्चय इत्यर्थः । तत्र चाङ्करकारणतावच्छेदकरूपवत्त्वं कारिमात्रवृत्ति न वा बीजत्तिजातित्वं प्रत्यक्षविषयत्वव्याप्यं न वा कारिमात्रवृत्तिधर्म ऽङ्करकारणतावच्छेदकजातिवं न वेति विप्रतिपत्तयः। प्रमाणाभावादिति। यद्यपि माधकबाधकप्रमाणाभावात् संशयो युक्रस्तथापि तस्य प्रामाणिकत्वे कल्पनागौरवस्यानवतारात् तदत्थापनार्थमेतदुक्तम् । अत एव दृष्टममवधानेत्यादिप्रतिहतवादित्यन्तकं दूषणम् । तथा च लाघवमहकतान्वयव्यतिरेकाभ्यामङ्करकारणतावच्छेदक बोजत्वमेव क्लप्तमिति न जात्यन्तरकल्पनमित्यर्थः । कार्या
(१) जाति विकल्पेन-पा० २ पु० ।
For Private and Personal Use Only