________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
वा(१)दित्याशयेनाशङ्कते। स्यादेतदिति । परस्परेति । एवकारेपातिशये नैरपेक्ष्यलाभः । श्राशयते देश्यते । चणिकत्वमिति शेषः । एकरमत्वमेकखभावत्वमेककार्यमामर्थमिति यावत् जातिभेदः कुर्वट्रपत्वम् । एतदङ्गीकारश्चानुगताङ्कुरजातीयनियामकतया कार्यव्यक्तिभेदस्य तथोत्पत्रकारणव्यक्तिभेदादेवोपपत्तेः । जातिश्च नैयायिकानां विधिरूपा व्यावृत्तिरूपा परेषाम् धर्मिणि वर्तमाना जन्यत्वजनकत्वयोरवच्छेदिका अनुगतव्यवहारादिनियामिका चेति ॥
किन्नाम बौजादिषु समवहितेष्ववान्तरजातिविशेषमाश्रित्यापि कार्यजन्म सम्भाव्यत इति । न दृष्टसमवधानमात्रेणैवोपपत्तौ तत्कल्पनायां प्रमाणाभावात् कल्पनागौरवप्रसङ्गप्रतिहतत्वात् अतीन्द्रियेन्द्रियादिविलोपप्रसङ्गात् विकल्यानुपपत्तेः विशेषस्य विशेष प्रति प्रयोजकत्वाचेति ॥ __शङ्क० टी० । किन्नामेति । बोजवं वा कारणतावच्छेदकं कुर्वदूपत्वं वा तथेति मन्दिह्यते इत्यर्थः । दृष्टेति । अन्वयव्यतिरेकविषयीभूते मति बौजवे तदन्यकल्पनायां न प्रमाणमित्यर्थः । तत्र कुर्वपत्वे विप्रतिपत्तयः । अङ्खरकारणतावच्छेदकत्वं फलोपहितबौजमात्रवृत्ति न वा बोजवृत्तिजातिवं प्रत्यचविषयत्वव्याप्यं न वा अङ्कुरोपहितमात्रवृत्ति धर्मोऽङ्कुर कारणतावच्छेदको न वा ।
(१) कार्यानजकत्वा-पा. २ पु० ।
For Private and Personal Use Only