________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१०
आत्मतत्त्वविवेके सटीके
तर्काभ्यासः। प्रतिपादितं च तथा। शून्यसाकारादिप्रतिपादकानां तु दुरभ्यासः। योगशास्त्रेष्वभ्यस्यतः स्वरूपशून्यमिव भाव्यमेकमेवेति प्रतिपादनात् । चैत्यचौवरादिप्रतिपादकानां तु स्वस्थितिमभिसन्धाय दर्शनान्तरस्थितिद्देषः। स्वस्थितौ प्रमाणमनपेक्ष्य परस्थितौ विगानात्। ब्रह्मचर्यप्रतिपादकानां तु वेदा एव, न्यायाविरुद्धं परतन्त्रोक्तमप्यानुकूल्यप्रसिद्धेह्यत इति विमर्षात् । मन्त्रकोषप्रतिपादकानां तु प्रणवबौजजातयः सर्वसाधारण्यः, श्रद्देयदेवतानामाङ्कस्त्वधिकः । श्रद्धापरिगृहीतश्चाकारो देवतेति हस्तसमालोचः। सत्यतपःशालौनां वचनं मन्त्रो विषयवत्यां चिन्तायां चित्तस्थैर्य प्रयोजनं, कयमन्यथा महोणा शापानुग्रहछामता, कथं वा चतुर्भुजाष्टभुजाद्यवस्थेति ( दरूहादिति। एकविप्रलम्भमा बा केनचित् कियदेव प्रणीतं तेनानुषित अपरैस्तदनुयायिभिएहौतमनुष्ठितं व्याख्यातं विवर्जितं पति किममुपपन्नम् । तस्माबिरुद्धागमव्यदासेन वेदा एवार्वाचौनपुरुषपूर्वकत्वशङ्काव्युदासेन परमेश्वरप्रणीतत्वा देव भूतार्थभागस्याप्रामाण्यशङ्काव्युदासेन प्रमाणमेवेति नियमः।
(१) दुरूहत्वादितिशङ्करसम्मतः पाठः ।
For Private and Personal Use Only