________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनपलम्भवादः
शाङ्क० टौ. । भविष्यन्नुच्छेद इति । चूणौभविष्यन्तीत्यादि १)साध्यवचादित्यर्थः । अन्यथेति । वर्तमाने सर्ग यत्कर्म संमारिभिः कृतं तम्याग्रिमसगं विना विफलत्वं स्यात् । तथा चायमपि मर्ग: प्रलयपूर्वकः सर्गत्वाभा विसर्गवदिति, मोऽपि सोऽपौत्यनादिरेवायं सर्गप्रलयप्रवाह इत्यर्थः। भोगज्ञानयोरिति। भोगः-समानाधिकरणसमानकालौनसाक्षात्कार विषयताव्याप्यजातिमत्साक्षात्कारः । जानं च मोक्षानुकूलं तत्वज्ञानम् । ननु मा भूगोगज्ञानयोः संभवः किमतोऽत पाह। न चेति । तेनेति [न] उभयसंभवेनेत्यर्थः । न चैवं ब्रह्मशतवर्षादिनियमः कथमत प्राह । समयेति । तर्हि कर्मवैषम्यं विषमविपाकसमयत्वं कथं समाधेयमत आह । कर्मणामिति। विषमविपाकसमयान्यष्येकदा निरुद्धवृत्तौति संभवत्येव सुषुश्यवस्थावदित्यर्थः । एतदर्थमेवेति । युगपहृत्तिनिरोधख्यापनार्थमेव दिनरात्रिभ्यां सर्गप्रलयो पुराणादिषु निरूप्येते इत्यर्थः । ननु कतिपयप्राणिकर्मणामेवयुगपट्टत्तिरोधारोधौ स्यातां न तु सर्वेषामिति शङ्कते। तथापौति। दिसतेति । चतुर्दशाभौमभुवनरूपस्य प्रासादस्य कालक्रमाद्यत्र भङ्गस्तत्रास्मदादौनां कतिपयानामवस्थानमसंभावितमित्यर्थः । लघुग्रामो ग्रामटौः। ननु मर्गादौ महाजना एव न सन्ति तथा च तदवसरे महाजनपरिग्रहः पराहत एवेत्याशक्य निरस्यन्नेवोपसंहरति । तस्मादिति । ईश्वरेण वेदरचनावसर एव मन्वादयो मानसा महाजनाः सृष्टास्तः परिग्रहः सर्गादावष्यस्त्येवेति नानवसरदोष इत्यर्थः ।
(१) साध्यबलादिति २ पु० पा० !
For Private and Personal Use Only