________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
आत्मतत्त्वविवेक सटौके
यथा चेत्यादिना । चूर्णीभविष्यन्तौत्या देनयन्तीत्यर्थः । भविष्यत्वमविवक्षितमन्यथा व्यभिचारात् । न च क्रमेण कैकद्रव्यनाऽपि न प्रलयसिद्धिरिति वाच्यम् । गगनादित्तिध्वंसाप्रतियोगीनि कार्यद्रव्याणि कार्यद्रव्यानधिकरणवृत्तिध्वंसप्रतियोगीनि कार्यभावत्वात् ध्वंसप्रतियोगित्वाद्वा सुखादिवदिति विवक्षितत्वात् । न च विभु-- वृत्तित्वमुपाधिः, मनःस्पन्दादौ माध्याऽव्यापकत्वात् ।
स्यादेतत, भविष्यन्नुच्छेदोऽनुमितः। स तु भूतोऽपौति कुत इति चेत् ! यत एव उच्छेदानन्तरं पुनः मर्गेण भाव्यम्। अन्यथा संमारिणां कृतहानप्रसङ्गात् । न हि विश्वनिर्माणमन्तरेण भोगज्ञानयोः मंभवः । न च तेन विना कर्मप्रवाहसंरोधः, ततो यथा भविष्यन् विश्वसर्ग उच्छेदपूर्वकम्तथायमपौति । समयनियमस्तु प्राणिनां कर्मवैषम्येऽपि वर्षादिनियमवददयास्तनियमवदा द्रष्टव्यः। कमणामेवैवं स्वभावत्वात्। एतदर्थमेव हि पुराणेषु सृष्टिप्रलययोदिवसरात्रिव्यवहारः। तथापि सर्वप्राणिनाशयौगपद्ये किं प्रमाणमिति चेत् ! दिःसप्तभौमभुवनप्रसादभङ्गेऽपि निर्भया एव (१)ग्रामकुटौहट्टविहारिणः शरीरिण इति महती प्रेक्षा। तस्मात् मर्गादिमहाजनमन्वादिपरिग्रहपूर्वकोयमद्ययावदनुवर्तत इति नानवसरदोषावकाशोऽपौति युक्तमुत्पश्यामः।
(१) ग्रामटौहट्टकुटौविहारिगा इति २ पु० पा० ।
For Private and Personal Use Only