SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके हाभिधानं तेन विहितस्य निषेधो निषिद्धस्य च विधानम्। उपायमविदुषो यागादेरिष्टोपायत्वमविदुषः । उपायाभासानुष्ठाने स्वयं परिकल्पितस्योपायाभासस्य लोकपरिग्रहार्थमनुष्ठाने प्रमाणान्तरामूलकोऽसर्वज्ञस्योपदेशः विप्रलम्भ एव विप्रलम्भकल्प एव अर्थनिर्णयापूर्वकत्वात् । न च (१)विप्रलम्भस्तत्कन्यो वा भवति भाजन महाजनपरिग्रहस्येत्यर्थः । तत्र न प्रथमः। वेदपरम्परानुपलम्भात, अर्वाचौनानां पाठपारतन्त्यमात्रेण प्रवाहोपपत्तौ तत्कल्पनायां प्रमाणाभावात्। नापि द्वितीय ; वेदहासदर्शनात् । यत इदानीमश्रूयमाणस्यापि वेदस्यार्थीऽनुष्ठीयते निबध्यते च मन्वादिभिः, पुरुषाणामपचौयमानशक्तिकत्वाच्च । यथा ह्यश्वमेधराजसूयाद्यनष्ठानशक्तरपचयस्तथाध्ययनशक्तरपि । न च पूर्वमपि नानुष्ठिता एव राजसूयादयः, तदर्थस्य वेदराशेवैयर्थ्यप्रसङ्गात्। न च नित्यानुमेयवेदसम्भवः । वर्णानां नित्यत्वेऽप्यानुपूर्व्याः पाठाश्रयत्वात् । न चानुपूर्वोशून्यवर्णाः पदं नाम, न चाऽऽकाङ्गाद्युपेतपदकदम्बादन्यवाक्यं नामेति गुरुरपि लघुरेव । तस्मात् पुरुषाणामनुष्ठानशक्तिवत् अध्ययनशक्तिरपि युगक्रमेणापचीयते ततो वेदानां शाखोच्छेदः तदर्था (१) विप्रलम्भक इति ३ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy