________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८६५
तस्मान्महाजनपरिगृहौत पूर्वपूर्वागमपूर्वकत्वात्, प्रवाहनित्यत्वाद्दा, प्रलयविच्छेदे सर्गादौ सर्वानुविधेयपुरुषधौरेयपूर्वकत्वाद्दा महाजनपरिग्रहो, न तु पूर्वागमानपेक्षार्वाचौनपुरुषपशुपूर्वकत्वात् । पूर्वागमप्रामाण्याप्रामाण्ययोरुभयथापि तस्य विप्रलम्भकत्वात् । प्रामाण्ये हि तद्विरुद्धाभिधानं विप्रलम्भ एव । अप्रा माण्येऽप्युपायमविदुषोऽननुष्ठाने तदा ( भाव )भासानुठाने वाऽसर्वज्ञस्योपदेशो विप्रलम्भ एवेति ।
शङ्क० टौ० । तत्तत्तौर्थिकमतानुसारेण विकल्प्योपसंहरति । तस्मादिति । संसारमोचकाद्यागममभिप्रेत्याह । न त्विति । तस्येति । अर्वाचीन पुरुषस्य तत्प्रणीतागमस्य वेत्यर्थः । प्रामाण्ये हौति । यदि पूर्वागमं वेदं प्रमाणं मनुषे तदा तद्विरुद्धार्थनरः शिरः पावित्र्याद्यभिधायकाभिधानं विप्रलम्भ एवेत्यर्थः । पूर्वागमं चेत् प्रमाणं न मनुषे तदा तदुक्तयागाद्यनुष्ठानविमुखौकरणान्नूनमर्वाचीनेन विप्रलधोसि तदाभासो मण्डलीकरणादिस्तदनुष्ठानोपदेशो वा तदुपदेशको वा विप्रलम्भक एवेत्यर्थः ।
रघु० टी० । प्रलयविच्छेदे । प्रलयेनागमप्रवाहविच्छेदे । उक्तप्रकारचयविरहिणि पाषण्डागमे महाजनपरिग्रहासम्भवं व्युत्पादयति । न त्विति । प्रामाण्यं प्रामाण्यस्य निश्चयः श्रभ्युपगमो वा । श्रप्रामाण्यं प्रामाण्यनिश्चय विरहः, श्रप्रामाण्याभ्युपगमो वा । तस्यार्वाचीन पुरुषस्य । विप्रलम्भकत्वात् विप्रलम्भककल्पत्वाद्वा । तद्विरु
For Private and Personal Use Only