________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
पूर्वकत्वं परिग्रहस्य निवर्तयितुमाह। न चेति। व्यामोहादिति । सर्वतादृशपुरुषपरिग्रहो न व्यामोहपूर्वको भवितुमर्हतीत्यर्थः । इदानौन्तनं धर्मशास्त्र पूर्वधर्मशास्त्राविरुद्धमेव यदि तदपि धर्मशास्त्र खमूलभूतपूर्वाविरुद्धमेवेति तत्पूर्वमपौति स्वीकर्तव्यमेव, यदि तादृशं न स्थात् तदा महाजनपरिग्रहविषयो न स्यादिति तर्कस्य तत्र तत्र प्रवृत्तेरित्याह । अथेति । ननु येन धर्मशास्त्रेणेदानीन्तनधर्मशास्त्राविरोधस्तन्नासौदेवेत्यताह । न चेति । अत्र वस्तुनौति । यागदानादौनामिष्टसाधनत्व इत्यर्थः । तथा च यागादौ प्रवृत्तिमन्तरेण धर्मो न भवेत्, तदभावे तदसाधारणकारणकं सुखं न स्थात्, सुखाभावे तदनुभवाधौनः सुखान्तरे रागो न भवेत्, तदभावे तदधौना प्रवृत्तिन स्यादिति निरौहं जगज्जायेत, तथा च पुत्राद्युत्पत्तिरपि न स्यादिति लोकोच्छेद इत्यर्थः ।
रघु० टौ। (१)वक्ष्यमाणतौर्थिकोपेतप्रकारत्रयमन्तरेणापि प्रकारान्तरेण (तदुपपत्तिं तावदादौ निराकुरुते । यथाहीत्यादिना प्रसङ्ग इत्यन्तेन । पूर्ववदिति पूर्वागमविरुद्धार्थत्वात् । नासौदेव तत्पूर्वमागमान्तरमतो न तद्विरोधसम्भावनापौत्याशय निराकुरुते। न चेत्यादिना। अब वस्तुनि यागादेरिष्टसाधमत्वे। विशिष्टशिष्टाचाररूपानुमानपूर्वकत्वन्तु (२)विजातीयागमपरंपरापूर्वकत्वेन समं समानयोगक्षेमम् ।
(१) बास्तिकाङ्गीकृतेत्यर्थः । (२) महाजनपरिहौतत्वोपपत्तिमित्यर्थः । (३) विजातीययागपरम्परेति २ । ३ पु० पा० ।
For Private and Personal Use Only