________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CCC
आत्मतत्त्वविवेके सटीक
गुरूणा शिध्यस्य केशोत्पाटनम् । तथेति। सर्वानुष्ठानगोचर इत्यर्थः । द्वितीयं महाजनपरिग्रहं म्फटयति । अपि चेति। ननु वाचकापभ्रंशविभागफलं व्याकरणं, तद्विभाग एव वस्तुगत्या नास्तीत्यत पाह। वाचकेति । तयवहारश्चेत् अस्ति सोऽपि व्याकरणाधीन एवेत्यर्थः । व्याकरणं हि प्रकृतिप्रत्ययागमादिपरिकल्पकवाक्यम्, न च गोशब्दवगाविशब्देऽपि तत्कन्पनास्ति तथा च तत्परिकल्पकवेन सर्वैरनुमतेन व्याकरणेन बहुलं छंदसौत्यादिना, भद्रं कर्णभिरित्यादौनां (१)समाधानात्तत्यालनौयत्वं सिद्धम्। किञ्च व्याकरणव्याख्यादभिर्महाभाष्यकारादिभिः सुगताद्यागमानामप्रमाण्यस्येव व्युत्पादनादिति भावः ।
रघु० टौ. । सन्दिग्धेति । परिग्राहकाणां प्रामाण्यासिद्धेस्तथात्वम् । सर्वति। न्यायादिदर्शनाभिज्ञत्वं, पाषण्डपुस्तकानि तु न दर्शनानि । विशिष्य वा न्यायादौन्यपादेयानि । अर्थति । तथा च न्यायाद्यभिज्ञानुष्ठीयमानार्थत्वं न्यायाभिज्ञादिभिर्वाऽनुष्ठीयमानार्थत्वमेकं महाजनपरिग्टहीतत्वम् ।।
तत्तद्दर्शनप्रतिपाद्यस्वर्गापवर्गादितत्साधनाद्यङ्गोकर्वनुष्ठेयार्थत्वं तदित्यपि केचित् ।
द्वितीयं तदाह । स्वीकृतेति। स्वौकतो निखिलतौर्थिकैरङ्गीकृतो वाचकत्वव्यवहारादिर्येषां तानि व्याकरणानि प्रकृतिप्रत्ययादिविभागेन साधुशब्दव्यत्पादकानि इन्द्रचन्द्रपाणिन्यादिप्रणीतानि शास्त्राणि तेः पालनमुद्देश्यीभूतं तदर्थानामवधारणमनुष्ठानं च । सुगताद्यागमार्थावधारणं तु न तेषामुद्देश्यम् ।
(१) साधनादिति २ पु० पा० ।
For Private and Personal Use Only