________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
खौकृतो-यथार्थत्वेनाभ्यपगतो व्यवहारः- प्रकृतिप्रत्यय विभागादिना व्यत्पादनं येषां पाणिन्या दिव्याकरणानां तैः पालनौयत्वं तथा व्युत्पाद्यासाधारणपदशा लित्वं, सुगताद्यागमस्थानि तु पदानि नासाधारणानि, असाधारणा नि तु छान्दसानि प्रणामौत्यादौनौत्यपि कश्चित् ।
खोकृतेत्याद्यप्रयोजकत्वशङ्काव्यदासार्थम् । एवमग्रेऽपि। हतौयं तदाह । स्वीकृतेति। प्रथमं तात्पादयति । तथा हौति । सांतमिति वेदान्तमधिकृत्य। संवृतिरविद्या। एवं वेदार्थानुष्ठाता । एवं महाजनैरनुष्ठेयः । मा भूदिति साम्प्रतिकमनुष्ठानमधिकृत्य, राजसूयाश्वमेधादौनामपि महाजनैरनुष्ठानस्य प्रमाणसिद्धत्वात् । सौ(शौ)द्धोदनिबौद्धविशेषः । तथा श्रमणकादिरपि । असाधारणस्तदपजौविभिन्नग्रन्थाप्रतिपादितः, तथा च महाजनानुष्ठीयमानामाधारणार्थकत्वं पर्यवसितोर्थः । द्वितीयं तद्विशदयति । अपि चति। स्यादेतत्। अपभ्रंशवत् माधवोऽपि न वाचकाः, वेदे विश्वेदेवाः श्टणतेममित्यादौ लोके गां ग्टहाणेत्यादौ प्रायशो वाचकयोः प्रकृतिप्रत्यययोरन्यतरस्याऽप्यभावात्, विकारादेशौ तु न प्रामाणिकौ न वा सम्भववाचकभावो, लोपे तु शब्दसंकथैव नास्तौत्यत आह । वाचकेत्यादि । तेषां-वाचकत्वप्रकृतिप्रत्ययविभागादिव्यवहारभाजां व्याकरणानां तत्तदर्थबोधकानां च शिक्षादौना, वेदरक्षा वेदार्थानामवधारणमनुष्ठानं च तदेव परमं प्रयोजनं, तदुद्दिश्यैव मुनिभिस्तेषां प्रणयनात् वेदानां पुनरप्रामाण्ये तदर्थावधारणमुद्दिश्य मुनीनां शास्त्रप्रणयनस्यानुपपत्तेः ।
112
For Private and Personal Use Only