________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८८७
तावन्महाजना भवन्तु परिग्रहस्तु तेषां क इत्यर्थः । एक परिग्रहमाह । तदर्थति । अम्मदभिमतस्य वेदम्यार्थी निष्कादिस्तैरनुष्ठीयते न तु बदागमस्यार्थो मण्डलीकरणादिरित्यर्थः। द्वितीयं महाजनपरिग्रहमाह । स्वीकृतेति । स्वीकृतप्रामाण्यं ययाकरणं पाणिन्यादिप्रणीतं तत्माधितासाधारणपदकत्वं महाजनपरिग्टहौतत्वमित्यर्थः । छन्दसि बहुलम्। छन्दसि परेऽपि। व्यवहिताश्चेत्यादिसूत्रप्रतिपादितासाधारणपदकत्वं यथास्मदागमे न तथा त्वदागमेऽपौति। बतौयमाह । स्वौकतेति । श्रायुर्वेदबोधित विध्यर्थविषयकत्वमित्यर्थः । शतकृत्वो गायत्रीमभ्यस्य नौरुग्मवतीत्यादौ गायच्या अस्मदागम एव सत्त्वादिति भावः । प्रथमं महाजनपरिग्रहं विवेचयति । तथा होति । नास्त्येवेति । तदर्शनं नास्ति यदन्तःपाती जनो वैदिकक्रियां नानुतिष्ठतौत्यर्थः । (१)वेदान्तमतमाश्रित्याह । सांवृतमिति । एवमिति, वैदिकक्रियानुष्ठातेत्यर्थः । अपि विति । भूयासर्वदर्शनान्तःपातिजनानुष्ठीयमानार्थत्वेनैव महाजनपरिग्टहीतत्वनिर्वाहादित्यर्थः । न सर्व इति । न राजसूया दिरपौत्यर्थः । न हि सर्व इति। अनेकधनव्ययाऽऽयासमाध्य(२)महाकुन्जप्रसारिण्यादिरित्यर्थः । एवं तौति । यदि क्वाचिकौ कतिपयमहाजनप्रवृत्तिः परिग्रहार्थ इत्यर्थः। सन्देहाकारं दर्शयति । किमित्यादि स्वयं दृष्ट एवेत्यन्तेन । श्रमणकः क्षपणकः, तदागमस्य सौगतैरपि प्रामाण्यानभ्यपगमात् । तत्राप्यहिंसाश्रवणाद्वैडालवतन्यायेनैव तदनुष्ठानं सौगतानामिति भावः । केशोल्लञ्चनं व्रतान्ते निर्विमत्वज्ञानाय
(१) वेदान्तिनमधिकृत्याहेति २ पु० पा० । (२) महाकुलप्रसारितेल महौषधम् ।
For Private and Personal Use Only