________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटौके
मा भूत्। न हि सर्वो वैद्यकार्थ एवमपि तु कश्चित् केनापि। एवं तर्हि सौगताद्यागमार्थोऽपि कश्चिदहिंसादिः सर्वदर्शनान्तःपातिभिरनष्ठीयत एव कैश्चिदिति सोऽपि महाजनपरिगृहीतः स्यात्। न। सन्देहात् । किमयमहिंसादिवैदिक एवार्थो विडालव्रतन्यायेन श्रद्धाऽऽपादनाय शौद्धोदनिप्रभृतिभिरुपनिबद्धः, आहो स्वयं दृष्ट एवेति । न तावत् स्वयं दृष्टः, श्रमणकाद्यागमसाधारणत्वात् । यस्त्वसाधारणो मण्डलीकरणादिः केशोल्नुञ्चनादिर्वा नासौ सर्वैरनुठौयते वैदिकस्तु असाधारण एव निषेकादिस्तथेति । अपि च वाचकापभ्रंशविभागोऽस्तु न वा, तद्यवहारस्तावत् सर्वेरेव तौर्थिकैरविगानेन स्वीकृतः। तथा शिक्षाज्योतिश्छन्दोनिगमनिरुक्ताद्यर्थश्च । तेषां च वेदर१व परमं प्रयोजनमिति ।
शङ्क० टी० । संदिग्धेति । मन्वादौनां प्रामाणिकत्वसन्देहादित्यर्थः । तदेति । बहुपरिग्टहौतस्थापि सुगताद्यागमस्य त्वया सर्वज्ञपूर्वकत्वानभ्युपगमादित्यर्थः । तेषामिति । सुगताद्यागमानामपि त्वदुक्कहेतुबलात् सर्वज्ञपूर्वकत्वं स्थादित्यर्थः । बहुत्वेति । अतिशयितानां बहनां महच्छब्देनाभिधानादित्यर्थः । सर्वति । सर्वाणि दर्शनानि न्यायमीमांसाप्रभृतौनि तदन्तःपातित्वं तत्प्रतिपाद्यमुख्यार्थस्वर्गापवर्गादिस्खौकतत्वमतिशयः । सौगतादिदर्शनानि तु दर्शनप्रतिरूपकाणि न तु दर्शनानौति भावः । कस्तैरिति । एते
For Private and Personal Use Only