________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
५
योग्यध्ययनविषयत्वमपि स्वाध्यायोऽध्येतव्य इत्यस्यापि प्रामाण्यासिद्धेः । तथापि महाजनानां निरुपधिवेदव्यवहारविषयत्वमेव तत् । महाजनपरिग्रहेण प्रामाण्ये सिद्धे तदर्भितवेदत्वस्य पक्षतावच्छेदकत्वेऽपि न क्षतिः । महाजनेति। प्रमाणान्तरामूलकत्वे सतौति देयं, तेन मन्वादिम्मृतेर्महाजनपरिग्रहीतत्वेऽपि न क्षतिः ।
ननु महच्छब्दोऽत्र यदि प्रामाणिकवचनस्तदा सन्दिग्धासिद्धविशेषणो हेतुः, अथ बह्वर्थः ! तदा सुगताद्यागमैरनैकान्तः तेषामपि वा (१)सर्वज्ञपूर्वकत्वमिति चेत् । न। बहुत्वातिशयस्य विवक्षितत्वात् । कोऽतिशयः ? सर्वदर्शनान्तःपातित्वम् । कस्तैः परिग्रहः! तदर्थानुष्ठानं, स्वीकृतव्यवहारव्याकरणादिपालनौयत्वं, स्वीकृतप्रामाण्यायुर्वेदादिस्वोकृतार्थत्वच्च। तथाहि नास्त्येव तदर्शनं यत्र सांस्तमित्यत्वापि गर्भाधानाद्यन्त्येष्टिपर्यन्तां वैदिकौं क्रिया जनो नानुतिष्ठति, स्पृश्यास्पृश्यादिविभागं वा नानुमनुते, व्यतिक्रमे चाऽऽचमनादिस्नानादिप्रायश्चित्तं वा नानुतिष्ठति। न सर्वत्र सर्वो जन एवमिति चेत् ! मा भूत, न हि सर्वै रोगिभिरायुर्वेदार्थो नानुष्ठीयत इति न तस्य महाजनपरिग्रहः। अपि तु सर्वदर्शनान्तःपातिभिरित्येव । तथापि न सर्वो वेदार्थ एवमिति चेत् !
(१) सर्वदर्शनकर्टभिः परिग्रहौतत्वमित्यर्थः ।
For Private and Personal Use Only