SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org CC8 Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटीके शङ्क० टौ० । प्रथमं दृष्टान्तमुपपादयितुमाह । कर्तृकर्मेति । दश(१)मूलौकषायपानं ज्वरोपशमहेतु तुलनाद्यसाद्गुण्यं कर्तुश्चाजीर्णज्वरत्वाद्यसागण्य मित्यर्थः । तत एव दशमूलीकषायपानादेरेव | श्रस्य मूलमिति । दशमूलीकषायपानं ज्वरोपशम हेतुरित्यस्येत्यर्थः । योगानामिति । तत्तद्वेषजसंयोगानामित्यर्थः । तथा करण इति । स्वयमुत्प्रेक्ष्य योगकरण इत्यर्थः । किञ्चाप्तोपदेशमन्तरेण पाठनादौ प्रवृत्तिरेव न स्यादित्याह । कश्चेति । योग्यायै अभ्यासाय श्रवश्यमिति । प्राथमिकस्योपदेष्टुरु पदेश्यसाक्षात्कार एव मूलमित्यर्थः । यदर्थं दृष्टान्तोपपादनं (२) तत्राह । तथा चेति । रघु० टौ० । दृष्टान्तमुपपादयति । तथाहौत्यादिना । कर्तु - विनियोक्कुर्वैगुण्यं तदौषधविनियोगायोग्य वयोऽवस्था दिवैशिष्ट्यं, साधनस्यौषधस्य कषायरसादेन्यूनाधिकाङ्गत्वं यथाविहितपचनभावनशोधनादिशून्यत्वादिकं च कर्मण: कियाया विनियोगस्य न्यूनाधिकमाचत्वाविहितकालीनत्वादि । यद्यपि वेदानां प्रामाण्ये साध्ये प्रामाण्यसिद्ध्यैव दृष्टान्तसम्भवस्तथापि सर्वज्ञपूर्वकत्वे साध्ये तदर्थमाह । न चेत्यादि । योगानामौषधानां परस्पर मिलनानाम् । विषादाविति । व्याधिविशेषेषु तेषामप्यौषधत्वात् । योग्याये शिक्षाये । न चेति । श्रगमानां वाक्यत्वेनानित्यत्वात्, स्वतन्त्र पुरुषप्रणीतत्वाच्च । श्रयमायुर्वेदः । वेदा अपीति । यद्यप्यत्र वेदत्वं प्रमाणशब्द विशेषत्वं प्रामाण्यासिद्धावसिद्धं, एवं त्रैवर्णिकनिष्ठप्रत्यवायजनकव्यतिरेकप्रति (१) दशमूलीकषायस्य तुलनाद्यसाद्गुण्य मिति २ पु० पा० । (२) तदाहेति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy