________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्वेति । सहकारित्वनिश्चये तादृशसन्देहाभावात् तदभावे ऽपि भवतस्तदकारणत्वादित्यर्थः । समानेति । बौजत्वेनैव रूपेण स्वरूपयोग्या इत्यर्थः ॥
10
७३
रघु ० टौ० 。 1 सामान्यत इति । न चाकुरसमर्थबोजचलं प्रत्यपि परेषां बौजत्वेन न कारणत्वम् अपि तु तत्कुर्वद्रपत्वेनैवेति वाच्यम् । तथात्वे ऽपि बौजजातीयस्य सत्यां सहकारिसम्पत्तौ व करणमिति सामान्यतोऽवधारणात् श्रनवधारणे वा नियतप्रवृत्त्यनुपपत्तेः । समानशीलाः समानयोग्यताकाः । तथा च सिद्धं बौजत्वेन कारणलमिति भावः ॥
समर्थ एव क्षणे क्षित्यादिसमवधानमिति चेत् तत् किमसमर्थे सहकारिसमवधानमेव नास्ति समवधाने सत्यपि वा तस्मान्न कार्यजन्म | नाद्यः शिलाशकलादावपि क्षितिसलिलतेजः पवनयोगदर्शनात् । न द्वितीयः शिलाशकलादिव कदाचित् सहकारिसाकल्यवतोऽपि बौजादङ्कुरानुत्पत्तिप्रसङ्गात् ॥
शङ्क० टौ० | समर्थाममर्थयोरेव महकारिममवधानाममत्रधाने इति नैकस्यैव तदधौने फलोपधानानुपधाने इति कथमेकशौलत्वमित्याह । ममर्थ एवेति ॥
For Private and Personal Use Only