________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
पूर्वः सामान्यतः कारणत्वावधारणे तस्यानवकाशात् अवकाशे वा कारणत्वानवधारणात् । नापि दितीयः सहकारिणां तत्त्वावधारणे तस्यानवकाशात् अवकाशे वा तेषां तत्त्वानवधारणात् । तृतीये तु सर्व एव तत्सन्तानान्तःपातिनो बीजक्षणाः समानौलाः प्राप्नुवन्ति यत्र तत्र सहकारिसमवधाने सति करणनियमात् सर्वत्र च सहकारिसमवधानसम्भवात् ॥
शङ्क० टी० । मामान्यत इति । न च सौगतानभ्यपगतमिदं बौजजातीयस्य महकारिसमवधाने सत्येव करणं करणमेवेति प्रत्यक्षसिद्धमित्यादिना तत्माधनात् । तेषामिति । न चेष्टापत्ति: सहकारिणे न कारणं स्थुरित्यादिना पूर्वमेव साधनात् । समानशौला इति । समानसामर्थ्यरूपं शौलं येषां ते तथा । एवं तर्हि कुशूलस्थस्थापि स्यादित्यत आह । सर्वत्र चेति ॥
भगौ० टौ। सामान्यत इति। बोजत्वेनैव रूपेणेत्यर्थः । यद्यपि परस्यैतदसिद्धम् तेन कुर्वद्र पत्वजात्या कारणत्वोपगमात् तथापि बीजजातौयस्य बोजत्वेन रूपेणाङ्कुरण प्रयोजकत्वमित्युभयसिद्धम्। तत्र तस्य कारणकारणतावच्छेदकत्वमत्याहोकारणतावच्छेदकत्व मिति संशये प्रथमे गौरवादन्ये बाधकाभावादेतदेव न्याय्यमित्यभिप्रायः। श्रममवधानवत् समवधाने ऽप्यकुराकरणद्दोजस्यातत्कारणत्वात् तदर्थिनः प्रवृत्तिर्न स्वादित्याह । अवकाशे वेति ।
For Private and Personal Use Only