________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
सामर्थप्रयुक्त इत्याशयेनाशङ्कते। तथापौति। असमर्थत्यादि । समर्थम्यापि सहकारिविरहे तदानौँ कार्यस्यानुत्पत्तौ समर्थस्याप्यकरणमुत्पत्तौ च महकारिणामकरणत्वम् । अममर्थ च सहकारिमाकल्ये समर्थबीजविरहे ऽपि कार्यस्योत्पत्तौ बीजस्थाकरणत्वम् अनुत्पत्तौ च बीजविरहेण समर्थस्यापि सहकारिणोऽकरणं प्रसज्येत। तेन तदुभयं व्युदस्तम् । अन्यथा वेति । समर्थस्थापि कदाचित्महकारिणां वैकल्यं कदाचित् साकच्यं तेनाकरणं करणं चेति प्रवृत्त्यन्यथानुपपत्त्या बोजत्वेनैव मामर्थ्यमित्याशयेन पृच्छति । कुशूलेत्यादि । प्रवृत्तिमन्यथोपपादयति । परम्परेति । अस्त्येवेति । शिलाशकलाविशेष: समर्थक्षणं प्रत्येवानायया बोजत्वेन सामर्थ्य वाच्यम् । तथा च समर्थस्यापि महकारिविरहाद करणभित्यायातमित्याशयेन पृच्छति। कदेत्यादि।
केचित्तु तज्जातीयानां महका रिलाभालाभयोः करणाकरणेन स्थैर्यमाधके दणिकत्वे ऽष्यपपनत्वात् एकस्यैव तु तेनाद्यापि सिद्धे प्रत्यभिज्ञानं च व्यभिचारिजातीयमसिद्धप्रमाभावं न साधकमतः कथं स्थैर्यमित्या(१)शयेनाह। तथापौति। असमर्थत्यादिनिधमइयं समर्थम्यापि सहकारिणा वैकल्यादकृतवतः पश्चात् माकल्ये सति करणम्य प्रतिक्षेपकं प्रवृत्त्यन्यथानुपपत्त्या बोजवेन मामर्थमिद्धौ न तादृशनियमसिद्धिरित्यागयेन पृच्छति । कुशलेतौति प्राहुः ॥
अथ यदा सहकारिसमवधानं तदैव करिष्यत्येव(२) परं कदा तेषां समवधानमिति सन्देहः। न तावत् (१) स्थैर्थसि दरिया-पा० २ पु० (२) करोत्येव-पा० १ पु० ।
For Private and Personal Use Only