________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
भगौ० टी० । ननु सहकारिविरहितस्यासमर्थस्यैवाकरणं न तु स्वरूपयोग्यस्य तत्समवहितस्य च करणं कुर्वद्रूपत्वजातिमत एवेत्यर्थः। न नियमेनेति । कुशलस्यं बीजं यद्यङ्कुरकारणतावच्छेदकरूपवन्न स्यान्नियमेनाङ्कुरार्थिप्रवृत्तिविषयो न स्यादित्यर्थः विपर्ययेऽप्यनुमानमित्यर्थः । ननु माचात्प्रयोजकत्वे साध्ये ऽङ्कुरार्थिप्रवृत्तिविषयत्वादित्यनेकान्तिकम् परम्पराप्रयोजकत्वे च साध्ये त्वदपेचितामिया सिद्धसाधनमित्याह । परम्परेति । शिलाशकलाद्विशेष इत्यनुषज्यते । तत्परम्पराजन्यव्यत्यन्तरे ऽपि प्रवृत्तिसंवाद उपपद्यत इति भावः । कदेति । कालविशेषे फलजनकत्वा निश्चये प्रेचावन्तो न प्रवर्तेरन्निति भावः । साधनत्वनिश्चयात् कालमन्देहेऽपि प्रवृत्तिः स्यादित्याह । तत्रेति ॥
रघु० टौ । ननु यद्युपदर्शितं करणमकरणं च स्वभावो भावस्य तदा यावत्त्वं तदुभयापत्तिः मति धर्मिणि स्वभावविरहायोगादिति चेत् न स्वभावत्वं तत्तादात्म्यं वा स्याद् यावत्सत्त्वं तत्र तत्सत्त्वं वा तद्धर्मतामाचं वा । तत्राद्ययोरनभ्युपगमोऽन्तिमस्ठ धर्मधर्मिणोरत्यन्तभेदेन धर्मिसत्त्वे ऽप्यमत्त्वं न विरुणद्धि | स्यादेतत् बीजत्वेन सामर्थ्यं सिद्धे समर्थानां बौजजातीयानामिवैकस्यापि बौजस्य सहकारिमाकल्यवैकल्याभ्यामेव करणाकरणयोरुपपत्तौ सिह्यति स्यैर्य न त्वेतदस्ति समर्थस्य क्षेपायोगादिति तथा च कुर्वद्रपत्वेनैव सामर्थ न बीजत्वेन समर्थ एव च सहकारिणां स्लाभो लाभ एव तथा च न उकारिसाकल्यवैकल्यप्रयुक्ते करणाकरणे किं तु सामर्थ्या
For Private and Personal Use Only