________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
तदर्थिनो न स्यात् । परम्परयाकुरप्रसवसमर्थबीजक्षणजननादस्त्येवेति चेत् कदा पुनः परम्परयापि तथाभूतं करिष्यतीति । तत्र सन्देह इति चेत् स पुनः किमाकारः किं सहकारिषु समवहितेष्वपि करिष्यति न वेति उतासमवहितेष्वपि तेषु करिष्यति न वेति ॥
शङ्क० टी० । नन्वेवं स्वभावदयस्थितावपि न स्वयं यतः कुर्वट्रपस्यैव सहकारिसमवधानमतपस्यैव तहिरह इति चणिकत्वेप्युपपद्यत इत्यभिप्रेत्याह । तथापौति। कर्तुरेवेति। कूर्वट पत्वजातिमत वेत्यर्थः । अकुर्वदपि बोजत्वा लिङ्गितं समर्थमेवेत्ये कस्यैव सहकारिलाभालाभाभ्यां करणाकरणे इति स्थैर्यमेवेत्यभिप्रेत्य पृच्छति । कुशूलस्येति । अङ्कुरादिप्रवृत्त्यन्यथानुपपत्त्यैव कुशलस्थस्थापि सामर्थमित्याह । न वेदिति। तदर्थिप्रवृत्तेरन्यथोपपत्तिमाह । परम्परयेति । असमर्थमपि कुशूलस्यं ममर्थं जनयिष्यति शिलाशकलं तु न तथेति विशेष इत्यर्थः । प्रत्येवेति । तदर्थप्रवृत्तिरित्यनुषङ्गः। यद्वा शिलाशकला द्विशेष इत्यनुषज्यते । काचिद्गुननष्टा व्यक्तिः समर्थलक्षणं न जनयत्यथ च तत्रापि तदर्थप्रवृत्तिरिति बोजवेनैव मामर्थ्य वाच्यमिति हदि निधाय पृच्छति । कदेति । परम्पराकारणे प्रवृत्तौ कालावच्छेदज्ञानमतन्त्रमित्याशयेनाह। तचेति। बीजं सहकारिसमवधाने करिव्यत्येव समवधानं कदेति मन्देहो वाच्यस्तथा च बोजत्वेनैवाङ्करं प्रति मामयं वाच्यमित्याशयेन संध्याकारं विकन्पयति । स पुनरिति ॥
For Private and Personal Use Only