________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
इत्यर्थः । तजन्येति। मन्त्रादिपाठजन्यादृष्टसहकारिणोऽन्यस्यैवेश्वरस्येत्यर्थः । मर्गादौ न शरीरगन्धोऽपौति। न सूर्यादिशौरगन्धोऽपि येन तत्प्रयत्नाधिष्ठेयत्वं स्यात् । तथा चेश्वर एवाशरोरोऽप्यधिष्ठातेति सिद्धमित्यर्थः । अत एव ज्ञानकारणशरीराद्यभावात्तदधौनप्रतिनियमानुपपत्तेः सर्वज्ञत्वमनिवार्यमित्याह । सर्वथेति ।
रघु० टी० । परमाणरूपमिति । तथाच सच्छिद्राण्यवयविद्रव्याणौति न तस्य पाषाणाभ्यन्तःप्रवेशविरोधः । सूर्यादिरिति शरीरमात्रोपलक्षकं । तथा च विप्रकृष्टशरौरोत्पत्रज्ञानादिरेवेश्वरो दूरस्था नि कार्याणि कुर्यादित्यर्थः । कारकेति। अन्यावच्छेदेनोत्पन्नप्रयनस्यात्मनः संयोगेऽपि कारकव्यापारानुत्पादात् ।
एतेन परमाणुरूपमेव शरीरमस्तु, न च प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियावदन्यावयवित्वमेव शरीरत्वं, अन्यावयविपदवैयर्थात्, मनस व शरीरस्थापि ज्ञानादिजनकत्वान्न वैयर्थ, अात्ममनोयोगस्य च जनकत्व प्रान्तरत्वं न तन्त्रं चक्षुरादिनिखिलेन्द्रियसंयोगविशेषवशाच्च तस्य रूपादिसाक्षात्कारकारणत्वं श्रोत्रस्य च कर्णशष्कल्यवच्छेदो न सार्वत्रिको भुजङ्ग व्यभिचारात् । दृष्टं च क्षुट्रस्थापि शरीरस्य महाद्रव्यप्रेरकत्वमिति प्रत्यकम् ।
असमवायिकारणेति उत्पादनियामकसंयोगोपस्लक्षकम् । प्रयत्नस्य चाणदेशत्वे न दवौयसि क्रियोत्पादसम्भवः। प्रयत्नावच्छेदकावच्छेदेनैव प्रयत्नवदात्मसंयोगस्य क्रियोत्पादकत्वात् । अन्यथाऽतिप्रसङ्गात् पारौरादिसंयोगानवच्छेदेन च न प्रयत्नोत्पादो विप्रकृष्टेऽपि क्रियोत्पादप्रसङ्गादिति न तस्य प्रयत्नस्य व्यापकत्वमतोव्यापकस्याजन्यत्व
For Private and Personal Use Only