________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
COS
सर्वथा कलेवरविगमात् अकारणतया बुद्धेः सर्वज्ञत्वमनिवायें विश्वषां कर्तुरेकस्येति।
शङ्क० टी० । भग्नस्य च प्रवेशे भेकादेः शरौरजन्यत्वं सिद्धमित्यर्थः । ननु पाषाणस्य सच्छिद्रतया परमाणरूपं शरीरं तत्र प्रविशेदेवेत्यत आह । न चेति । शरौरान्तर्गतमेव च मनोज्ञानं जनयतौति भावः । तत्कुर्यादिति। पाषाणमध्यवर्तिभेकादि कुर्यादित्यर्थः । कारकेति। भेकशरोरं प्रति यत् कारकं तदधिष्ठानं तत्र व्यापारोपधानं तद्दिषयेण प्रयत्नेन भवेत्, न च विदूरवर्तिना प्रयत्नेनान्यत्र व्यापार श्राधातुं शक्य इत्यर्थः । ननु तस्य प्रयत्नो व्यापक एवास्त्वित्यत आह । तथापौति । तथाच सूर्यपदेन नित्यव्यापकप्रयत्नवानौश्वर एवाभिधीयत इत्यायातमिति भावः । ननु दविष्ठोपौच्छाविषयतया प्रयत्नविषयः स्यादित्यत आह न चेति। उद्देश इच्छा । तथाभावेति । विदूरे क्रियाजनकत्वप्रसङ्गादित्यर्थः । ननु सूर्यादिशरौरसंयुक्तमाकाशं तत्संयुक्तं च भेककारकचक्रमिति तत्प्रयत्नेन तत्र क्रिया स्थादित्यत आह । न चेति । साक्षादधिष्ठानस्येति । प्रयत्नवदात्मसंयोगेनाधिष्ठानं विवक्षितं, तत्रास्मदादौनां शरीरदारमौश्वरस्य तु न तद्वारमित्यर्थः । ननु गारूडिकप्रयत्नेन व्यवहितेनापि दष्टविषापनोदः कथं क्रियत इत्याह । विषेति । तत्रेति । गारूडिकमन्त्रपाठादिना गरूडदेवतायास्तादृशं ज्ञानं जन्यते, येन दष्टो जीवति, तत्र चास्मदादेर्गारूडिकस्य प्रयत्नो न विरुद्ध इत्यर्थः । ननु तथापि दष्टनिष्ठं विषं गारूडिकप्रयत्नेन व्यवहितेन कथं चलति कथं वाभिध्यानेन विषशकलं (न) चलतौत्यत आह । विषापनोदादाविति। तत्महकारिण इति। मन्त्रादिपाठसहकारिण
For Private and Personal Use Only