________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७६
आत्मतत्त्वविवेक सटौके
ज्ञानानुपपत्तेः, यश्च यज्जातीयमेकं कर्तुं ज्ञातुं वा समर्थः स तज्जातीयं सर्वमेवेति नियमः। सामर्थ्यस्य जातिनियतत्वात् केवलं समर्थोऽपि सहकार्यसन्निधेर्न कुर्यान्न जानौयात् । तत्र प्रथममिष्यते । कार्यस्य कालदेशनियमोपलम्भात्। द्वितीयस्तु संभवेदपि यदि कार्यमस्य ज्ञानं स्यात् । न च तत्तथा। कथमिति चेत् ? शरीरापाये तदाश्रितानां इन्द्रियादीनामपायात्। न चान्वयव्यतिरेकसिद्धहेतुभावस्याभावेऽपि हेत्वन्तरात् कार्यजन्म । निर्हेतुकत्वप्रसङ्गात् । न चाहेतुकं कार्य नाम। ततः स्वतःसिद्धेवास्य ज्ञानचिकौर्षाप्रयत्नशक्तिर्यत्गोचरा तज्जातीयसमस्तगोचरेति सार्वज्यसिद्धिः।
शङ्कः० टौ० । असार्वघ्यं परिहरति । एकेति। एषामिति । परमाण्वदृष्टादौनामुपादाननिमित्तादिरूपत्वादित्यर्थः । तर्हि तदुपादानादिज्ञानात्तगतसामान्यज्ञानं कुतम्त्यमित्यत आह । अवच्छेद्येति । यश्चेति । यथा घटपटादिकर्तुः कुलालकुविन्दादेः सर्वतदपादानजातीयताभिज्ञत्वमित्यर्थः। सततोत्पत्तिप्रसङ्गमपाकरोति । केवलमिति। शरौरोपाय इति। ज्ञानकारणं नास्ति ज्ञानं चास्तौति तन्नित्यत्वमवर्जनौयमित्यर्थः । ननु शरीरादिभिन्नमेव तत्र कारणं स्थादित्यत श्राह । न चेति । स्वतःसिद्धेति। नित्येत्यर्थः ।
भगौ० टौ. । एकेति । सर्गादियणकादिपक्षीकरणे तावदुपादानाद्यभिज्ञ एक एव सिद्ध्यति लाघवात् । यत्रैव लघविषयता
For Private and Personal Use Only