________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८७७
सम्भवस्तवाहकमानेन लघोरेव विषयौकरणात् । नित्यत्वेनानियतविषयज्ञानम्यासिद्धेरित्यर्थः । अवच्छेद्येति । इतरकारणव्यावृत्तानुगतरूपाज्ञाने उपादानादेरज्ञानादित्यर्थः । योग्यतापरत्वेनाह । यश्चेति । सामर्थस्येति । प्रतिव्यकिव्यभिचारेण कारणत्वाद्यग्रहादात्मत्वेनैव समस्तज्ञानयोग्य इत्यर्थः । स्वतःसिद्धा स्वग्राहकमानमित्यर्थः ।(१)
रघु० टौ० । सार्वज्यं साधयति । एकेत्यादिना । वस्तुतोऽनाद्यनन्ताया गुणकादिकार्यपरम्परायाः (२)पक्षीकरणालाघवेन तावदपादानविषयकत्वेनैकमेव ज्ञानं सिद्यति । तत्तत्प्रकारकत्वं च तस्य तत्तद्धर्मविशिष्टतावत्पदार्थोपदेशवशादेव तदधिकं तु सार्वज्यं श्रुतिबलादेव । ___ कारणाधौनो ज्ञानस्य विषयनियमो नित्यस्य तदभावादनियतविषयत्वमिति तु टोकाकृतः ।
जन्यस्य तत्तविषयत्वं तत्प्रयोजककारणाधीनं तदन्यविषयताविरहस्तु तत्प्रयोजककारणविरहात् अन्यथा जन्यस्य क्वचित् किञ्चित्प्रकारकत्वं तत्तत्कारणविशेषाधौनमिति नित्यस्य तयावृत्त्या सर्वत्र सर्वप्रकारकत्वं स्यादिति तु तत्त्वम् । ___ कारणवाद्यवच्छेदकानुगतधर्मज्ञानं साधयति । अवच्छेद्येति । प्रवृत्तिमतोऽनुगतरूपावच्छिन्नकार्यकारणग्रहवत्त्वनियमादिति । यश्चेति । लाघवादात्मलेनैव कार्यमात्रजननज्ञेयमात्रज्ञानयोग्यत्वा
(१) पक्षीकरणानुरोधेनेति १ पु० पा० । (२) इतः परं भागीरथी न लभ्यते ।
For Private and Personal Use Only