________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
मन्वयव्यतिरेकाभ्यामेव सामान्यतः कार्यकारणभावस्य परिच्छेदादौश्वरस्थाऽपि कारणत्वं सिद्धं, त्यापि सामान्यलक्षणायां विप्रतिपत्तेः, कर्टकार्यविशेषाणामेकेन्द्रियावेद्यत्वावेत्थमभिधानम् । यच्चेत्यादि । ईश्वरस्य कारणत्वे सिद्धे कार्यस्य सततोत्पत्तिवारणायादृष्टं सहकारि कल्प्यते, तेन चेश्वरस्य कारणत्वमपाकतुं न शक्यते, उपजीव्यविरोधात् अन्यथाऽऽशविनाशिनो यागादेः कालान्तरभाविफलजननान्यथानुपपत्त्या क्लप्तनादृष्टेन व्यापारेण यागादेः कारणत्वेऽपाकृतेऽदृष्टमपि न सिद्धयेत् प्रमाणाभावात् । दृष्टेन हि यागादिनाऽन्यथानुपपद्यमानावगतकारणभावेनादृष्टमुन्नौयते । अथ सुखादिना कार्यण कारणमदृष्टमुन्नेतव्यमिति चेत् ? तस्य निरपेक्षस्य जनकत्वे प्रागपि कार्योत्पत्तिप्रसङ्गः, दृष्टकारणम्य चन्दनादेरपेक्षायान्तु तेनैव तत्कारणताबाधः । अथेश्वरस्य सत्त्वासत्त्वयोरवण्यापेक्षणीयाददृष्टादेव कार्योत्पत्तिसम्भवे नेश्वरे प्रमाणमिति मतं तन्न ; तस्य प्रागेव दर्शितत्वादिति। जनकेति । वस्तुतः परदुःखप्रहाणेच्छा परसुखोत्पादेच्छा वा तस्य कारुण्यं, न तु परदुःखानुत्पादेच्छा, सामग्रीसत्त्वे कार्योत्पादस्य दुर्वारत्वात् । सर्वज्ञत्वेन भ्रमविरोधिदर्शनं दर्शयति, अदृष्टादिरूपज्ञानसामान्यसामग्रौशून्यस्य चेश्वरस्य न तद्विशेषभ्रमसम्भावनापि ।
एकद्दणुककारौ चर) परमाणुमदृष्टमुपकार्ययणकादिभोगपर्यन्तं द्रव्यादिपदार्थषट्वं च जानाति नूनमित्यविवादम् । एषामुपादानादिरूपत्वात् । अवच्छेद्यावच्छेदकभावापरिज्ञानेन वोपादानादिपरि
(१) तु इति १ पु० पा० ।
For Private and Personal Use Only