________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८५५
एकप्रवृत्तौ तु सर्वप्रवृत्तिरप्रत्यूहेति शृङ्खलाबन्धेन व्यवस्थितेः।
शङ्क० टौ० । हतीये पोति । विपक्षे बाधकवत्त्वं यत् प्रतिबन्धलक्षणं तत्रेत्यर्थः । आधारमारभ्य कर्टपर्यन्तं घमां कारकत्वं व्यत्पाद्य कर्बधौना तदितरकारकव्यापारपरम्परा, अतो न कर्तारमन्तरेण कार्योत्पत्तिरिति । विपक्षे वाधकमाह । श्राधारत्वादिति । श्राधियन्ते गुणकर्मादयोऽस्मिन्नित्याधारस्तं चान्तरेण कार्यानुपपत्तेस्तत्कारकमित्यर्थः । अपनेयेति । अपनेयम्त्याज्यो वृक्षादिः । अपगन्त पर्णादि, तथा च वृक्षात्पर्णं पततीत्यत्र विभागक्रियायां वृक्षस्य पर्णस्य च कारकत्वम् । तदवधित्वादिति । तन्निरूप्यत्वादित्यर्थः । यद्दा अपनेयं यदपगन्त पर्णादि तदुपहितं तदिशिष्टं स्वरूपमपादानस्येत्यर्थः । तदवधित्वादिति । अपनयरूपक्रियावधिवादित्यर्थः । करणीभूतेति। कर्मणा यमभिप्रेति म सम्प्रदानमिति सूत्रानुसारेण सम्प्रदानस्वरूपमाह । करणीभूतेति । विप्राय गां ददातौत्यत्र दानक्रियां प्रति विप्रस्य कारकत्वं तमन्तरेण दानक्रियानुपपत्तेः । अत एव ब्राह्मणस्वीकरणान्तस्त्यागो दानमिति वृद्धाः । तदभिप्रेयत्वादिति । देयस्वत्वभागित्वेन दातुरभिप्रायविषयत्वादित्यर्थः । (१)करणोपहितमिति । करणनिरूप्यमित्यर्थः । तदेवाह । तड्याप्यत्वादिति । करणव्यापारविषयत्वादित्यर्थः । कर्चपहितमिति कर्टनिरूप्यमित्यर्थः । तदेवाह । साक्षादिति । कर्टव्यापारविषयः करणमित्यर्थः। साक्षादिति कर्मव्यावर्तनाय, कर्मणोऽपि
(१) करणोपस्थितमिति ३ पु० पा० ।
For Private and Personal Use Only