________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
मौशितः श्रुतयो जगत्कर्तत्वादिकं न च तासाममति बलवत्तरे बाधके स्वार्थहानिरुचिता । साधित च सिद्धार्थप्रामाण्यं श्रविशिष्टश्च (१) स्वर्गादिबोधिकानामिव तासामपि विधिसमभिव्याहारः, तत्र तवेश्वरमुपासीतेत्यादिश्रवणात् ।
एतेन ज्ञानत्वाद्यवच्छिन्नं प्रति श्रात्मन: ( २ ) शरौरादेः, इच्छा त्वाद्यवच्छिन्नं प्रति च ज्ञानस्य, कृतित्वावच्छिन्नं प्रति चेच्छाया, लाघवेन कारणवावधारणात् न नित्यज्ञानादिसिद्धिरिति परास्तम् ।
लाघवमात्रबलप्रवृत्तेनानुपजीव्येन मानेन तादृक् श्रुतिसहस्रबाधायोगात्, प्रत्युत तद्विरोधादनन्ताया: पटत्वघटत्वाद्यवच्छिन्नं प्रति तन्तुकपालादिगोचरज्ञानत्वादिना कारणताया दुर्वारत्वात्, दैववशसम्पन्नखण्डपटादिकं प्रति च कुविन्दादिज्ञानादौनामजनकत्वात् । ज्ञानादेर्जन्यत्वेऽवच्छेदककोटौजन्यत्वानुप्रवेशस्यैवोचितत्वात् । श्रथैवमानन्दमयत्वादिश्रुतेरानन्दोऽपि नित्यो भगवति भवे भवेदिति चेद्भवत्येवेति ब्रूमः ।
विषेति । विनापि शरीरप्रयुक्त्रिं ध्यानादेव तज्जननादित्यर्थः । यः साचादिति । ईश्वरस्तु साक्षादेव सकलकारकाधिष्ठानशक्त इत्यर्थः । देह एवेति । चैत्रेण साक्षादनधिष्ठितस्यापि मैत्रदेहस्य मैत्रेण साचादधिष्ठानात् । किन्त्वित्यादि । हर्षभयशोकानां यानि स्मितकम्परुदितानि लिङ्गानि तैः । तान् हर्षभयशोकान् । उन्नौयेति । क्वचित्तान्युन्नौयेति पाठः । स च यत्र स्मितादौन्यपि लिङ्गोम्नेयानि तत्परतया कथञ्चित्सङ्गमनीयः ।
(१) यज्ञाद्यङ्गादि ३ ५० पा० | (२) आत्ममन इति र पु० पा० ।
८५३
For Private and Personal Use Only