________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५२
आत्मतत्त्वविवेक सटीक
ननु घटकर्तत्वे कुलालशरोरोपग्रहः प्रयोजको न तु करभारीरोपग्रहोऽपौति शङ्कते । कार्यविशेषेति । कार्यस्याप्रयोजकत्वम्, अपेक्षणीयत्वं चेति व्याहतं, स्वकर्मोपात्तत्वमात्रेण तदवच्छेदकत्वे ' दोषस्योकत्वादित्यर्थः । अव्याघात इति । कर्मोपात्ततामात्रेणेवापेक्षणीयत्व इत्यर्थः । कारकत्वे सन्दंशो दृष्टान्तः, (२)कारकाश्रयत्वेऽयःपिण्डः। नन क्षित्यादावपि शरीरं कारकमेव कारकप्रयोजक वेत्यत आह । न चेति । पूर्व निरस्तत्वा दित्यर्थः। नन्वेवं किं कुलालादिना ईश्वरेणेव घटादिनिर्वाहादित्याह । एवमिति । वादान्तरत्वादिति। ईश्वरः सिद्ध एव म एव तु साधयितुमुपक्रान्तः, किमधुना कुल्ला दिकत्वमाधनेनेत्यर्थः । नन्वेवं दृश्यमानम्यापि कर्तृत्वं न समाहितमिति महानयमपकर्ष इत्यत आह। यदापौति । घटादिकर्टत्वेन कुलालाद्यात्मा न साध्यते येनेश्वरेणान्यथा सिद्धिः स्यात्, किन्तु स्मितरुदितकम्पहर्षभयगोकादौन्यत्रीय तदाधारकुलालाद्यात्मसिद्धिरित्यर्थः । ।
रघु० टौ० । अविनिर्भागवृत्तिः नियतः । यद्यप्यदृश्यस्याशरीरिणो नित्यज्ञानेच्छाकृतिमतो निवृत्तिरसम्भावितव, तथापि तत्तत्कार्यविशेषकर्ट विशेषाणामन्वयव्यतिरेकाभ्यां जायमानः कार्यकारणभावस्य ग्रहः कार्यत्वकर्तृत्वाभ्यां तं परिच्छिनत्ति, अमति बाधकावतारे विशेषान्वयव्यतिरेकाभ्यामेव सामान्यतः कार्यकारणभावग्रहात्, तथैवान्वयव्यतिरेकात् । प्रतिपादयन्ति च प्रतिशाख..
(१) तत्प्रयोजकत्व इति २ पु० पा० । (२) कारकव्यापामाश्रयत्वे इति २ प. पा० ।
For Private and Personal Use Only