________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्त प्रयुञ्जीत, नत्वेकस्य साक्षादधिष्ठानायोग्यमन्यस्यापि तथेति नियमः । देह एव व्यभिचारात् । तृतीये त्वजागलस्तनकल्पः कायो नोपयुक्तांशविवेचने स्वं निवेशयति, यथा धूममाचं प्रति तार्णदहनान्वयव्यतिरेकयोरालोकवत्तेति । यदि चाकारकस्याप्यतत्प्रयो[ गद्दार ]जकस्यापि अवश्यमपेक्षा स्यात्, य एव कुलालकायवान् घटस्य कर्त्ता स एव करभशरौरवानपि दण्डादौन् प्रयुञ्जीत, न खलु स्वकर्मोपात्ततामात्रेण करभकुम्भकारशरौरयोः कश्चिद्विशेषः । कार्यविशेषे कायविशेषोऽनुपयोग्यपेक्षणीय इति चेत् ? तच कार्येऽनुपयुक्तश्चावश्यापेक्षणीयश्चेति व्याघातः । अव्याघाते वा कुम्भे कर्तव्ये करभशरीर मप्यवश्यमपेक्षणीयमविशेषादिति । तस्मात् सन्दंशवदयःपिण्डवत् (९) कारकतत्प्रयोजकतयैव ) शरीराधिष्ठाननियमो न तु शरौरत्वेनैव । न च शरौरस्य सर्वत्र कार्ये कारकत्वं तत्प्रयोजकत्वं वेति । एवं तर्हि न प्रतिनियतदेहाधिष्ठातृसिद्धिः । अङ्कुरादिकारकाधिष्ठात्रापि तत्सिद्धेरिति चेत् । न । वादान्तरत्वात् ।
(२) कस्यापि देहस्येति २ पु० पा० । (२) व्ययःपिण्डे, इति १ पु० पा० | (३) कारकप्रयोजकतयैवेति २० पा० ।
For Private and Personal Use Only