________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८४६
लाघवेन कर्तजन्यतावच्छेदकत्वेन साध्यव्याध्यत्वात् तदव्यापकत्वेन साध्या गपकत्व विचारणाचेति ।
द्वितीयेऽपि श्रवणसम्पटमवधाय कलकलस्त्यज्यताम् । तथाहि दण्डादिषूदासौनेषु दृश्योऽदृश्यो वा (नाना) कारकव्यापाराविनिर्भागवत्तिश्चेतनो नित्तो न वेति त्वमेव प्रष्टव्यः। न चेत्, कुतः कारणान्यदासते। निवृत्तश्चेत् कथमदृश्यव्यतिरेकसंशयः । तथापि यादृशस्यान्वयः तादृशस्य व्यतिरेकोऽपि उपयुज्यत, इति चेत् । कोच विप्रतिपद्यते, कारकप्रयोक्तरुभयचापि तुल्यत्वात् । देही तादृश इति चेत् ! कोऽस्यार्थः ! किं देह-(देहव्यापारसंपादन-) हारैव सर्वाणि कारकाणि प्रयुक्त चेतनः, आहो देहं प्रयुञ्जान एवेति । न पूर्वः, देहस्यापि कारकतया देहान्तरप्रयोज्यतायामनवस्थानात्। न द्वितीयः विषशकलचालनादौ व्यभिचारात्। देहं धारयनिति चेत् ! सोऽयं देहो धार्यः किं कारकतया तत्कारकान्तरप्रयोगाथै ! अथ स्वकर्मोपात्ततामात्रेण ! प्रथमे न विरोधः । देहस्य क्वचित् कार्यकारकतयाऽधिष्ठाननियमात् । यत्र तु न तत् कारकं तत्रापि तदधिष्ठेयमिति कश्चेतनोऽभिदध्यात्। द्वितीयेऽपि यः माक्षादधिष्ठातुमशक्तः स साक्षादधिष्ठेयमुपादाय
For Private and Personal Use Only