________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
आत्मतत्त्वविवेके सटीके
मत्वाकाभादेरसकर्टका द्विपक्षात् कार्यत्वस्य हेतोात्तिरूपदर्शनौया भक्तीत्यत आह । विपक्षेति । व्यतिरेकिणो धर्मस्यान्वयव्याप्तेयतिरेकव्याप्यत्वादन्वयदर्शनेनार्थाय तिरेकोऽपि दर्शित एवेत्यर्थः ।
रघु० टौ । अस्तु शररिकर्टकत्वमप्युपाधिरत श्राह। शरीरस्थ चेति । शरीरिकर्दकत्वस्येत्यर्थः । कर्चव्यापकत्वात् सकर्टकत्वाव्यापकत्वात् मानाभावादिति भावः । अथ शरीरसापेक्षेणैव कुविन्दादिना कर्चा पटादिकार्यजननादवश्यं सकलकत्वस्य गरौरिकर्टकत्वमत श्राह। तदिति । तत्कार्यत्वस्य शरोरकार्यत्वस्य । उपाधेर्नियामकस्य शरीरजन्ये पटादौ जनयितव्ये सहकारित्वेन कर्ता शरीरमपेक्षते न तु तदजन्ये विटपादावित्यर्थः । कर्तुरायतननियमात्तथात्वं. निराकरोति । नापौति । भोगविति, भोगादिजननायं कर्तुरायतनापेक्षा न तु कर्तृत्वार्थमेव । नित्यस्य कृत्यादेस्तदनपेक्षत्वात् । उपकरणाधिष्ठानार्थं तदपेक्षां निराकरोति । नापौति । नाप्यधिकवृत्तिः । पारीरकर्टकत्वाभाववहृत्तिः । तादृशस्योपाधित्वे तत एवाशरीरकर्ट सिद्धौ तवापसिद्धान्त इत्याह । शरौरेति । सन्दिग्धासिद्धत्वं साध्यव्याप्यत्वसन्देहेन । उभयथा तादृशस्य साध्यव्याप्यत्वे तत एव साध्याव्याप्यत्वे निरूपाधेः कार्यत्वादेवेति । सोऽशरौरौ कता । कार्यत्वमेवेति । श्रादायेत्यनुषज्यते । शङ्का पिशाच्या इति। ननु साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवोपाधित्वं साध्यव्याप्यत्वस्य दूषकतायामप्रयोजकत्वात् । तथा च शरीरिकलकत्वातिरिक्तवृत्तिशरोरजन्यत्वादिकमेवोपाधिरिति कथमशरीरिक सिद्धिरिति चेत् । न । कार्यत्वस्य
For Private and Personal Use Only