________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८४७
शरीरापेक्षया अधिकवृत्तिरित्यर्थः । श्रशरीरे ति । शरौराधिकवृत्तिरूपाधिः सकर्टत्वम्य साध्यस्य व्यापकत्वे सति व्याप्योऽपि वाच्यस्तथा च शरोर विनाकृतस्यापि कर्तत्वमायातमतस्त्वयाऽपसिद्धान्तभयेन नैतादृश उपाधिर्वाच्य दूत्यर्थः । ननु शरीराधिकवृत्तिरुपाधिनिश्चितो नोच्यते येन तद्वलादशरीरौ कर्ता सियेत्, श्रपि तु सन्दिग्धोपाधिरसावित्याह । श्रस्त्विति । तत्प्रयोजनमाह । तेनेति । ननु साध्यस्य सकर्तृकत्वस्य व्याप्योऽयुपाधिरिति तद्वलादशरीरस्यापि कर्तृत्वं मेत्स्यतौति स एवापसिद्धान्तस्तवेत्यत श्राह । न चेति । त्वया तस्योपाधित्वं न स्वीक्रियते येन तद्वलात् साध्यं सिद्ध्येदित्यर्थः । नोभयथापौति । शरीराधिकवृत्तेरुपाधित्वेऽनुपाधित्वे त्यर्थः । यदि तस्योपाधित्वं तदा तद्दला देवाशरीरौ कर्ता सिद्धः । अनुपाधित्वे तु निरुपाधेः कार्यत्वादेव हेतोः चित्यादावशरीरी कर्ता सिद्ध इति भावः । किमत्र तत्त्वमिति निवारयितुं विमृशति । किन्त्विति । उपाधिबलादा स्वादशरीरौ कर्ता निरुपाधिहेतुबलाहेति सन्देह इत्यर्थः । सोऽपि सन्देहोपि । उपाधिशङ्काह्यशरीरपूर्वकमपि किञ्चित्कार्यं कर्तृकमेव स्यादिति शङ्कामापादयेत् स च न सम्भवति अशरीरेऽपि कर्तरि सिद्धे तस्य ज्ञानेच्छाप्रयत्ना नित्याः सर्वविषयाश्च वाच्यास्तथा च यत् कार्यकर्तकत्वेन शङ्क्यते तदुपादानमपि तज्ञानादिभिर्विषयौकर्तव्यमिति कुतः कार्यस्य कस्याप्यकर्तृत्वशङ्केति न तावद्देहव्यतिरेकेणेत्यादि फक्किकार्थः । एवमिति । विरोधौसहवृत्तिरित्यादिविकल्प (सकर्तकाद्विपक्षात् कार्यत्वस्य हेतोर्व्यावृत्तिरित्यादिविकल्प ) चतुष्टयमुखेनेत्यर्थः । निरुपाधौति । यत् कार्यं तत् सकर्टकमिति प्रतिबन्ध सिद्धिरित्यर्थः ।
For Private and Personal Use Only