________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
आत्मतत्त्वविवेक सटौके
कार्यकारणभावनियमात । ततो नित्यं भवेत ततः सर्वविषयं च नियतविषयताया अनित्यत्वेन व्यापनात् विषयनियमस्य सामग्रौशक्तिसमवधानाधीनतया नित्यात्तस्याः सव्याप्यमुपादाय निवर्तमानाया अनित्ये विश्रामात्। सर्वगोचरे च ज्ञाने चिकौर्षाप्रयत्नयोरपि तथाभावः, तदेकविषयत्वात्तयोः। तथा च कंचिदपाधिमादायाशरौरपूर्वकमपि किंचिदेव कार्य कर्तृपूर्वकं भविष्यतीति शंकापिशाच्या वावकाशः। एवमन्यत्राप्यनया दिशा उपाधिशंका निराकरणौयेति निरुपाधिसम्बन्धसिद्धिः। विपक्षसम्भवे च साधनप्रयुक्तसाध्यसद्भावसिद्धौ साध्याभावप्रयुक्तसाधनाभावलक्षणस्य व्यतिरेकस्यापि सिद्धेः न तदर्थं पृथगपेक्षेति।
शङ्क. टौ० । ननु शरौरजन्यत्वमेव तद्युपाधिः स्यादत प्राह । शारौरम्य चेति । सकर्टकत्वे साध्ये शरीरजन्यत्वं नोपाधिः, कर्तत्वे वा साध्ये शरीरित्वं नोपाधिः, उभयत्रापि शरीरनिष्पाद्यकार्यविशेषस्योपाधित्वान्नोपाधेः साध्यव्यापकतेत्यर्थः । कर्तुः पारीरापेक्षा किमायतनत्वेन सहकार्यन्तरसन्निधापकत्वेन वा, नाद्य इत्याह । भोगोपाधित्वादिति । दितीये त्वाह । साक्षादिति । यत्र कर्ता साक्षात्प्रयत्नेनाधिष्ठातुं न शक्यते तत्रैवोपकरणप्रापकतया शरीरापेक्षा, ईश्वरे तु न भोगो येन भोगायतनतया गरौरमपेक्षत, न वा तत्प्रयत्नाविषयः किञ्चित्, येन तत्प्रापकतया शरीरमपेक्षतेत्यर्थः। अन्यथापौति । साक्षात्प्रयत्नेनापौत्यर्थः । अधिकवृत्तिरिति ।
For Private and Personal Use Only