________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
रिच्छायाश्च ज्ञानेन विषयनियम इत्यर्थः । स च सविषयः कृतिजातीयश्च । वस्तुतस्तु कृतेरिव ज्ञानेच्छयोरपि कार्यजनकत्वेन साधनं न पुनरिच्छाकृत्योः कारणत्वेन विषयनियामकत्वेन वेति न कश्चिदपि दोषः ।
तार्किकगर्ववाहस्त्वाह-ननु सपक्षविपक्षयोर्दशनादर्शनमात्रस्य शतशः प्रत्तावपि व्यभिचारोपलम्भात्, तल्लक्षणस्यानुपलब्धव्यभिचारस्यापि तथाभावसंभावनाक्रांतत्वात् लक्षणान्तरं प्रतिबंधस्य वक्तमुचितम्। तच्चोपाधिविरहो वा स्यात्, तदुत्पत्तिर्वा, विपक्षे बाधकं वेति संक्षेपः, तत्र न प्रथमः, अदृश्योपाध्यभावनिश्चयोपायाभावात्। दृश्येनैवोपाधिना भवितव्यमिति च नियमानुपपत्तेः। नापि द्वितीयः, सा ह्यन्वयव्यतिरेकाभ्यां निश्चीयते, तौ च दृश्यशरौरवचेतननिष्ठौ वा स्याताम् । उपाधिविधुरदृश्यादृश्यसाधारणचेतनमावनिष्ठौ वा। न प्रथमः । विटपादौ व्यभिचारात्, प्रकृतासिद्देश्च। न द्वितीयः। घटादिकार्यव्यतिरेकसमये तत्प्रयोजककुलालव्यतिरेकवद् दृश्य चेतनमात्रव्यतिरेकस्य निश्चेतुमशक्यत्वात्। न हि कुलालादिदृश्यव्यतिरेकस्यावश्यं व्यतिरेको विटपादावपि तथाभावग्रसंगात्। तर्हि सन्तानान्तरानुमानमपि कथम् , कुम्भकारव्यतिरेके
For Private and Personal Use Only