________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३६
आत्मतत्त्वविवेके सटीके
भावत्वं वक्रव्यं न चैतच्छरोरजन्यत्वत्वावच्छिन्नप्रतियोगिताकेऽतिरिकेभावे । न च विशिष्टस्यावच्छेदकत्वे विशेष्यस्य जन्यत्वत्वस्याऽप्यवछेदकत्वं तथा सति दण्ड जन्यत्वाभावादौ व्यभिचारस्य दुरित्वात् । न चैकस्मिन् लघौ धर्मिणि व्याप्ये सम्भवति गुरोरन्यस्य धर्मिणो न व्याप्यत्वम् अतिप्रसङ्गात् । न च हेतुना पक्षधर्मताबलादप्रसिद्धः कर्ता साध्या, प्रतिहेतुना च प्रसिद्धक-भावः, अप्रसिद्धस्य निषेद्धमशक्यत्वादिति भिन्नविषयत्वान्न सत्प्रतिपक्षत्वमिति वाच्यम् । सकर्षकत्वसामान्याभावस्य साध्यत्वात् । प्रतियोगितावच्छेदकावलौढ-- यत्किञ्चिद्यकिज्ञानादेव तज्ज्ञानादिति । मैवम् । अप्रयोजकत्वात्, अजन्यत्वस्थोपाधित्वाच्च । पूर्वसाधनव्यतिरेकस्य चानुपाधित्वे साध्यव्यापकताग्राहकप्रमाणाभावस्य तन्त्रत्वात् प्रकृते च लाघवेन जन्य - वावच्छेदेन कर्टजन्यत्वात्तदभावस्य तदभावव्यापकत्वात् ।
तर्हि तर्कापरिशुद्धिरस्तु दूषणम्, शरीरनिवृत्तौ बुद्धिनिवृत्तः, बुद्धिनित्यत्वे शरीरानुपयोगवत् प्रयत्ननित्यतायां ज्ञानेच्छानुपयोगादिति चेत् । न। प्रयत्नस्य द्विधर्मकत्वात् । स हि ज्ञानकार्यो ज्ञानकविषयश्च कर्तृत्वं, तत्र कार्यत्वनिवृत्तौ कारणतया ज्ञानं मा पेक्षिष्ट, विषयाथं तु तदपेक्षा केन वार्यते! न चास्य स्वरूपेणैव विषयप्रवणत्वं ज्ञानत्वप्रसङ्गात्, अयमेव हि ज्ञानात् प्रयत्नस्य भेदः, यदयमाप्रवण इति। न च निर्विषय एवास्त्विति वाच्यम् । अकारणत्वप्रसङ्गात्। तथा च
For Private and Personal Use Only