________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुप लम्भवादः ।
८३५
विवादाध्यामितं नादृष्टहेतुकं शरौराजन्यत्वादित्यनेनापि जन्यत्वस्य सत्प्रतिपक्षप्रसङ्गादिति।
शक टो० । असमर्थेति । व्यभिचारावारकविशेषणान्तर्भावेन याप्यभावायाप्यत्वा सिद्धरित्यर्थः । अजन्यत्वमाने कृते स्वरूपासिद्धिः स्यात् तथाच तद्वारणे विपोषणं मार्थकमित्या पाते । प्रसिद्धौति । अत एव शापवासिद्धिरित्याह । एकामिति ! म्वरूपासिद्धिपरिहारेऽपि व्याप्यचा सिद्धेरपरिहारादित्यर्थः । गैरवेण नौलधमत्ववद्विशेषणान्तभावेन व्याप्रियाकप्रमाणानुदयादिति भावः । अनिष्टान्तरमाह । अन्यथेति । विन्यादेरदृष्टजन्यत्वं त्वदभ्यपगतमेवं सति निवर्ततेत्यर्थः ।
रघु० टी०। असमति। हेतुविशेषणस्यार्थः प्रयोजन व्यभिचारवारणं तदभावादसमर्थत्वं, यभिचारवारणवत् स्वरूपासिद्धिवारणमपि प्रयोजनं परामर्शोपयोगित्वादित्याशङ्कते । असिवौति। एका स्वरूपासिद्धिम् । द्वितीयाया व्याप्यत्वासिद्धेरापत्तेः । व्यभिचारावारकविशेषणविशिष्टस्य नौलधूमादेव्याप्यत्वात् । ___ननु नौलधूमादिकं याप्यमेव । अथ व्याप्यतावच्छेदकरूपेशैव हेतोः कथायामुपन्यासः, न च नौलधूमत्वादिकं व्याप्यतावछेदक मिति चेत् । किमिदमवच्छेदकत्वं नाम? स्वरूपसम्बन्धविशेष इति चेत्तर्हि विलौनं द्रव्यं रूपादित्यादिना रूपादिचतुर्विशतौ द्रव्यत्वव्याप्नेर्लाघवेन एकेन गुणत्वेनेवावच्छेदात् व्याप्यमात्रवृत्तित्वादिकं च नौलधूमत्वादावक्षतम् । अपि च जन्यत्वप्रतियोगिकाभावमात्रस्य व्यभिचारात् जन्यत्वत्वावच्छिन्नप्रतियोगिका
For Private and Personal Use Only