________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटौके
प्रकारिका । अन्यथा तु विशेष्ये विशेषणं तत्र च विशेषणान्तरमवगाहमानाऽनुमितिरुत्पद्यते विशिष्टोपस्थितिम्तु चरमं मनसा ।
अथवा साध्यविशेषविषयतामन्तरेण पक्षे साध्यवत्ताबुद्धेरपर्यवसानमाकाका यथा अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता गुणत्वादित्यत्राष्टट्रव्यातिरिक्तद्रव्याश्रितत्वविषयतामन्तरेण तादृशिश पक्षे द्रव्याश्रितत्वबुद्धेः पक्षे साध्यसामान्यवत्त्वसिद्धौ सत्यां माध्यविशेषबाधो ऽनुपपत्तिः। तत्र च विशेषान्तरबाधविशिष्टेना १) व्यतिरेकिणाऽन्वयिना वा साधनेन साध्यविशेषस्य सिद्धिः। यथा इच्छाया द्रव्याश्रितत्वे सिद्धे अष्टद्रव्यानाप्रितत्वे सति द्रव्याश्रितत्वेनाष्टद्रव्यातिरिक्रट्रव्याश्रितत्वस्य, यथा वा तत्रैव पृथिव्याश्रितत्वबाधे पृथिव्यनाश्रितत्वे सति द्रशाश्रितत्वेन पृथिव्यतिरिक्तद्रव्याश्रितत्वस्य ।।
क्वचिच्च लाघवादपि यथा जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति जीवनस्य, प्रमाणञ्चात्रानुभवः, तदनन्तरं विशेषसन्देहाभावः । सामान्याकारेणैव प्रमाणस्य परिच्छेदकत्वे तस्यौत्सर्गिक लध्वर्थपरिच्छेदकत्वमित्यपि न सिहोत् । फला निर्णयात् । एवं च यत्रैकविशेषबाधानन्तरं सामान्यतोदृष्टस्यावतारस्तत्र तत एव विशेषान्तरस्य सिद्धिः । अन्यत्र तु व्यतिरेकिण इति मन्तव्यम् ।
अस्तु तर्हि सत्प्रतिपक्षत्वं शरीराजन्यत्वादिति चेत्। न। असमर्थविशेषगत्वेनामिदभेदस्यातुल्यबलत्वात् । असिद्धिपरिहारे विशेषणं समर्थमिति चेत् । न। एकामसिद्धिं परिहरतो द्वितीयापत्तेः। अन्यथा
(१) तहिरोधाभावविशिएनति प्र. १ पु० पाठः :
For Private and Personal Use Only