________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८३१
कर्तत्वेनेश्वरसिद्धेरप्रत्यूहत्वात् । शरीरजन्यत्वं तथा, शरीरत्वं च चेष्टाश्रयत्वं चेष्टात्वं च जातिरखण्डोपाधिर्वा इत्यन्यदेतत्, चेष्टाजन्यत्वं वा तथेति चेत् । न। एवमप्यस्मदाद्यकर्ट काणां शरीरपवनसंयोगादौनां बुद्ध्यादौनां च चेष्टाजन्यानां सुखदःख - धर्माधर्मसाक्षात्काराणां कर्तत्वेनेश्वरसिद्धेरावश्यकत्वात् । लाघवेन जन्यत्वस्यैवावच्छेदकत्वौचित्याच्च ।
विशेषविरुद्धोऽयं हेतुरिति चेत् । न। विरोधिविशेषाप्रतीतौ विरोधस्य प्रत्येतुमशक्यत्वात्, तत्प्रतौतौ वा सहोपलम्भनियमेन विरोधस्य बाधितत्वात्। सर्वथैवाप्रतीतस्याभिप्रायगोचरत्वमपि कथमिति चेत्। न। स्वार्थानुमानसिद्धत्वात्। ततोऽपि कथं सिध्यत्विति चेत्, अप्रतीतप्रत्यायकं प्रमाणं, न त्वप्रतौतेन विरोधः शक्यनिश्चय इत्यतो विशेषात् । का पुनरनुमानस्यैवम्भतप्रत्यायने शक्तिरस्तौति चेत् ! आकाशानुपपत्तिनियमभेदेन विविधः सम्बन्धः । तत्राकाङ्क्षानियमाभ्यामन्वयौ, अनुपपत्तिनियमाभ्यां व्यतिरेकौति विभागः।
शङ्क० टौ० । विशेषेति। पक्षधर्मताबलायातं नित्यमर्वज्ञत्वं(१) व्याप्तिबलायातशरीरिकर्डकत्वविरुद्धमित्यर्थः। विरोधो ह्यशरीरिकर्ता, स च न सिद्धः, सिद्धश्चेत्र विरोध इत्याह । नेति। अभिप्रायेति ।
(१) सर्वज्ञमिति मूलपुस्तके पाठः ।
For Private and Personal Use Only