________________
Shri Mahavir Jain Aradhana Kendra
८३०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
कार्यज्ञानादौनां जन्यजनकभाव:, प्रत्यासत्तिश्च कार्यस्य समवायो ज्ञानादीनां च विषयत्वं, तथा च कारणतया ज्ञानादिकं सिद्ध्यत् कार्यसमवायिविषयकमेव सिद्ध्यतीत्यभिप्रायात् । हविरादिगोचरज्ञानस्य सामान्यलक्षणादिना कथञ्चित्परमाणुविषयत्वेऽपौच्छायाः कृतेश्च तदभावात् समानाधिकरणदृष्टाजनकत्वं श्रदृष्टजनकजन्यान्यत्वम् (श्रदृष्टजनकं यज्जन्यं तदन्यत्वमित्यर्थः), श्रदृष्टादारकत्वं वा, ज्ञानादिविशेषणम् । तदद्वारकत्वं च तदप्रत्यासत्तिकत्वं, नित्यस्य च स्वत एव सत्त्वान्नादृष्टं (1) प्रत्यासत्तिः । न चैवं शब्दादिसाधारणपचतायामंशतः सिद्धसाधनं, पचतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्याया (२) श्रसिद्धत्वात् । श्रतीन्द्रियाणि द्रव्याणि द्रव्याणि वा ज्ञानेच्छाकृतिशालौनि कार्यात् । श्रतीन्द्रियत्वं चात्र साक्षात्कारकारणस्येन्द्रियसंयोगस्य चतु:संयोगस्य वा नाश्रयत्वं स्वविषयसाचात्कारजनकान्यत्वं विषयतया साचात्काराजनकत्वं, उद्भूतरूपवन्महदन्यत्वादिकं वा । न च साचात्कारविषयत्वं साक्षात्कारकारणेन्द्रियंसंयोगाश्रयत्वं, साक्षात्कार कारणसंयोगाश्रयत्वं । वोपाधिः, ज्ञानादिकार्ययोस्तै कार्थप्रत्यासत्त्या कार्यकारणभावेन हेतोः साध्यव्याप्यतया तदव्यापकत्वेन साध्याव्यापकत्वादिति वा साधनप्रकारः । कार्यत्वं च सत्त्वेन विशेषितमविशेषितं वा प्रागभावप्रतियोगित्वम् । न च कार्यत्वं न कर्तजन्यतावच्छेदकं श्रपितु घटत्वपटत्वादिकमिति वाच्यम् । अनन्तत्वात् । तावतापि घटत्वाद्यवच्छिन्नं प्रति कपालादिगोचरज्ञानत्वादिना कारणत्वे कुलालाद्यजन्यानामाद्यघटादिसान्तानिकानां
,
(१) सत्त्वादादृष्टमिति २० पा० । (२) बद्देश्यतया इति २ पु० पा० ।
For Private and Personal Use Only