SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ आत्मतत्त्वविवेके सटौके गमात् । किञ्च कृत्याश्रयजन्यत्वस्य माध्यस्याप्रसिद्ध्या साध्यविकलो दृष्टान्तः । कुलालाद्यात्मनोऽपि जनकत्वासिद्धेः, कारणीभूतकृत्याश्रयस्यैव कर्तृत्वात् हेतुत्वे सतीत्यस्य वैयर्थ्यात् । कर्तरि कारकव्यपदेशस्य नाग्टहीतविशेषणान्यायेन कृतौ पर्यवसानात्। न वा नित्यविभोरात्मनः कारणत्वमपि सम्भवति, तबाहककालदेशगर्भव्यतिरेकाभावात् । न च ज्ञानवत्कार्यत्वादात्मजन्यत्वमनुमेयम् । स्वात्मसमवेतत्वस्योपाधित्वात् । अन्यथा शब्दवदाकाशजन्यत्वानुमित्यापत्तेः । अपि च सामान्यलक्षणप्रत्यासत्तिजन्योपादानज्ञानादिमताऽस्मदादिना ऽर्थान्तरम् । अनोच्यते । झणकमेव पक्षः । न च वित्या सन्दिग्धानेकान्तिकम् । पक्ष-पक्षममनरपेक्षेण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधात् । न चानुमित्योरन्योन्याश्रयः । न च क्षिती पक्षधर्भताजानाभावः । सिषाधयिषाविरहसहकृतसाधकमानाभाववतः पनत्वात् । तच्च यणके पञ्चावयववाक्यात् क्षितावन्यत इति न विशेषः । यदि च यणके लिङ्गनिश्चयदशायां तदत्तया क्षितेन निश्चयः, क तदा सन्दिग्धानकान्तिकम् । न चैवं सकल विषयकज्ञानासिद्धिः, लाघवादेकज्ञानादिसिद्धा-- वत्पत्तिमत्त्वेनानादिकार्याजनकत्वेन नित्यत्वसिद्धेः। कारणं ततो निवर्तमानं नियतविषयतामादायैव निवर्तत इति तत् सिद्धेः । तस्याः कारणाधीनत्वात् सामान्यतोपि साध्यनिर्देशे पक्षधर्मताबलेन साध्यविशेषस्य सिद्धेर्नोपादानखण्डनम् । अपरोक्षज्ञानविषयोभवदपादानकमिति साध्यनिर्देशाददृष्टप्रागभावव्याप्यप्रागभावाप्रतियो गित्वेन ज्ञानानेदकमननुगतमपि भवतीति भावः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy