________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
खोपादानज्ञानादिपरत्वे चाप्रसिद्धिरनैकान्तिकत्वञ्च, घटादावेवंविधसाध्याभावात् । न च स्वोपादानेतिकरणे निस्तारः। स्वत्त्वस्याननुगततया तदन्तर्भाव्य व्याप्तिरग्रहात् । अथोपादानशब्दस्य सम्बन्धिशब्दत्वेन मारपदवदपस्थितविशेषपरत्वं सामान्यत एव निणेतमिति क्षितिपदसमभिव्याहारात् सर्व समञ्जसम्, अन्यथा यत् कार्य तत् कारणजन्यमित्यपि व्याप्तिस्करीत्या न सिझेदिति चेत् । न । एतस्था व्युत्पत्तेः शाब्दानुभवमात्रविषयत्वात् न चात्र तथा, वादिनोऽनाप्नत्वात् । किञ्चैवं सामान्यरूपेण कचिदनुपस्थितेाप्तियह एव न स्यात् व्युत्पत्तावपि ज्ञानपदादेरपि समभिव्याहाराज्ज्ञानोपादानजन्यमित्यन्वयप्रसको अर्थान्तरत्वप्रसङ्गेन तत्परत्ववारणाय सम्बन्धित्वेन यत्ममभिव्याहतमिति वाच्यं न चात्र क्षित्याधुपादानं सम्बन्धित्वेनोपात्तम् । अपि च साध्याप्रमिद्धिः, अपरोक्षज्ञानस्यास्मदादिकृतावजनकत्वात् । चिकौर्षाकृत्योश्च स्वेष्टसाधनताधौजन्यत्वात् , प्रत्युत घटादेस्तादृशानुमितिजन्यत्वदर्शनादौश्वरेऽप्यनुमितिरेव मिद्येत् । वेषयोनिजीवनयोनिकृतिसाध्ये चिकौर्षाविरहात् व्यभिचारश्च, तदृष्टान्तेन क्षित्यादौ द्वेषजन्यत्वानुमितेरौश्वरे द्वेषोऽपि सिद्ध्येत् , द्वेषवतः संसारित्वेन भगवतोऽपि तथा स्यात् । किञ्च कार्यत्वं न तावत् कृतिसाध्यत्वं, परस्थासिद्धेः । नापि किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तित्वम् । एतत्क्षणवादी, प्रागभावे च, व्यभिचारात् । नापि प्रागभावप्रतियोगित्वम्, ध्वंसे व्यभिचारात्। न च सत्त्वेन हेतुर्विशेष्यः, सत्ताजातेः परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य च ध्वंमेऽपि सत्त्वात् । नापि पूर्वकालासत्त्वे सत्युत्तरकालसम्बन्धः । सकलपूर्वकालस्याप्रसिद्धेः, तत्तत्पूर्वकालस्य चाननु
For Private and Personal Use Only