________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
सात्मतत्त्वविवेके सटौके
कृतमिति तस्थार्थ इति चेत् । न । शरीररूपादेरप्यदृष्टदारास्मदादिना जनने शरीरापेक्षत्वात् । निमित्तकारणीभूतशरौरसाक्षाज्जन्यकार्यातिरिक्रोत्पत्तिमत्त्वं विवक्षितमिति चेत् । न । शरीरसाक्षानन्यत्वं हि शरौरजन्याजन्यत्वं तच्चाप्रसिद्ध कार्यमात्रस्यैव शरीरजन्यादृष्टजन्यत्वात् । किञ्चैवं ध्वंसस्यापि पक्षवे तस्यानुपादानतया साध्यबाधः । अपक्षत्वे च तेनैव सन्दिग्धानेकान्तात् । एतेन यणकाधेकैकमेव पक्षः तावतेवेश्वरसिद्धिबाधकस्यापि पक्षान्तर्भावे गौरवादित्यपास्तम् । न च निश्चितसाध्याभाववति साधनसदसत्त्वसंशयात् स इति वाच्यम् । साथाभावबगामित्वसंशयस्य दूषकत्वात् । तस्य च साध्याभाववति हेतुसन्देहादिव साधनवति साध्याभावसन्देहादपि दूषकत्वाविशेषात् । साध्यमपि सकर्टकत्वं यदि कर्टसाहित्यं, कर्तजन्यत्वं वा, तदा सिद्धसाधनं । न च साक्षात् कृतिजन्यत्वमसिद्धेः, जन्यमात्रस्यैव कृतिजन्यादृष्टजन्यत्वात् । न च कृतिसमानकालौनासमवायिकारणकत्वं तदर्थः । घटादेर्दृष्टान्तस्य साध्यवैकल्यापत्तेः । तस्य चेष्टाद्वारा कृतिसाध्यत्वात् । चेष्टामात्रस्य दृष्टान्तत्वे चेष्टान्यत्वेन मत्प्रतिपक्षत्वापत्तेः । किञ्चास्मदादिनाऽर्थान्तरं पक्षधर्मताबलादस्मदाद्यात्मन्येव नित्यैकत्वपरममहत्त्ववन्नित्यज्ञानादेरपि सिद्धेः धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात्, अतस्तद्दारा सिद्धसाधनं च । उपादानगोचरापरोक्षज्ञानादिमज्जन्यत्वस्य साध्यत्वेऽपि सिद्धसाधनम् । किञ्चोपादानपदेन यदि यत्किञ्चिदुपादानं विवक्षितं तदा पटाधुपादानज्ञानादिनार्थान्तरम् । न चान्योपादानज्ञानादेरन्यत्राजनकत्वनियमः, पटोपादानविषयज्ञानजन्येच्छायनसंस्कारेषु व्यभिचारात् ।
For Private and Personal Use Only