________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
२३
स्मृतेरपि वहेः परम्परया भस्मजनकत्ववत् ज्ञानस्यापि विशिष्टभोगद्वारा कर्मनाशकत्वमित्यत्र कर्मपदमुख्यार्थत्वानुरोधात् तत्त्वज्ञानेन प्रतिबन्धादिहितनिषिद्धक्रियातो न धर्माधर्मोत्पाद इत्यत्र वा तात्पर्य, न वाहत्यैव ज्ञानस्य कर्मनाशकत्वे, “प्राचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य” इत्यन्यथोपवर्णयितमशक्यायाः श्रुतेविरोधात् । तदर्थश्च तस्यात्मसाक्षात्कारवतः तावदेव चिरं विलम्बो, यावन्न विमोक्ष्ये विमोक्ष्यते उपात्तकर्मराशेः सकाशात् फलोपभोगेन, अथ तस्मिन् सति सम्पत्स्ये सम्पत्स्यते कैवल्येनेति । वाक्यशेषश्च भवति “भोगेन वितरे क्षपयित्वेति” । अथाहत्यैव तत्त्वज्ञानं धर्माधर्मप्रतिबन्धकं न तु मिथ्याज्ञानवासनासमुन्मूलनद्वारेति चेत् । न । शरीरभिन्नात्मसाक्षात्कारविशेषविरहमपेक्ष्य लाघवेन शरौराहंवासनाया विपरौतावासनाया ( विपरीतवासनाया ) एव वा कारणत्वादिति ।
आम्नायसारसङ्क्षपस्त्वशरीरं वावसन्तमित्यादि। तदप्रामाण्यं प्रपञ्चमिथ्यात्वसिद्धान्तभेदतत्त्वोपदेशपौनःपुन्येषु अन्तव्याघातपुनरुक्तदोषेभ्य इति चेत् । न। सतात्पर्यत्वात्। निष्प्रपञ्च आत्मा ज्ञेयो मुमुक्षुभिरिति हि तात्पर्य प्रपञ्चमिथ्यात्वश्रुतीनाम् । आत्मन एकस्य ज्ञानमपवर्गसाधनमित्यदैतश्रुतौनाम् । दुरूहोऽयमिति पौनःपुन्यश्रुतौनाम् । बहिः संकल्पत्यागो निर्मनस्कश्रुतीनाम्। आत्मैवोपादेय इत्यानन्दश्रुतौनाम्। गारुडवदनुष्ठाने तात्पर्य
For Private and Personal Use Only