________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
आत्मतत्त्वविवेके सटौके
न च प्रायशित्ताचरणदुःखमेव पातकफलं, नरकादेरिव तस्थ तत्फलत्वेनाश्रवणात, प्रायश्चित्तविधानवैयर्थ्याच्च, तेन विनापि नरकादेरिव तस्यापि गलेपादिकया दुरितेनैव सम्पादनौयत्वात्, न खलु निवृत्तये कर्मजन्यमनिष्टं विधीयते, अपि तु कर्मणोऽनिष्टसाधनत्वं बोध्यते, विना प्रायश्चित्ताचरणदःख तत्तन्महारौरवादिनरकोपभोगेनापि पापस्याविनाशप्रसङ्गाच्च, “ तस्मादेनसः पूतो भवति" तरति ब्रह्महत्यां “ योऽश्वमेधेन यजते,” “ ब्रह्महत्यां व्यपोहति" इत्यादिश्रुतिस्मृतिभ्यो दुरितनाशस्यैव प्रायश्चित्तफलत्वावगमाच। श्रत एव ग्रहदाहेश्यादिवन्नैमित्तिकमेव प्रायश्चित्तमिति परास्तम् । फलान्तरकल्पनागौरवप्रसङ्गात् , कौनकर्मनाशापारगमनादीनामपि धर्मनाशकत्वस्यागमिकत्वाच्च । स्मतेरागमबोधितनाशकानाश्यकर्मपरत्वात्, बोधयति चागमो ज्ञानस्यापि कर्मनाशकत्वं, तथा च श्रुतिः
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
चौयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे" ॥ इति । स्मृतिरपि
"ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथेति । अत्राहुः । श्रुत्या हि ज्ञानस्य न कर्मक्षयजनकत्वं बोध्यते परन्तु ज्ञानानन्तयं कर्मक्षयस्य, तच्च क्लप्तकारणभावभोगद्दारैव उपपद्यमानं न कारणत्वव्यवस्थापकम् । न च व्यभिचारेण भोगो न तत्त्वज्ञानस्य द्वारमिति वाच्यम् । युगपदनेकदेहसम्पादनौयभोगानां तदधौनत्वात् । जन्यजनकभावः परमस्ति न वेत्यन्यदेतत् ।
समानाधिकरणभोगप्रागभावासमानकालौनो भोगस्तत्त्वज्ञानेन जन्यत इत्यपि कश्चित् ।
For Private and Personal Use Only