________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
सम्भवत
sutraat aar एव, शरीरादिसम्बन्धेनात्मन्येव सुखदुःखयोरुत्पादात् । तथापि न धर्माधर्मवत्त्वत्प्रयोजकौ, स च केवलात्मदर्शिनः क्रमेण निवर्तत इति भावः ।
८२१
रघु० टौ० । अत्र शरीरादिदिविकात्मज्ञानस्य मोहेतुत्वे । शरौरस्य प्राधान्यं नैसर्गिकाहंप्रत्यय विषयत्वात् । एतत् तृष्णाद्वेषजृम्भणम् । जन्म शरौरं । तत इति । मिथ्याज्ञानवत एव रागद्वेषाभ्यां प्रवर्तमानस्य विहितनिषिद्धानुष्ठानादपूर्वधर्माधर्मोपचयात् संसाराविच्छेदो, न तु तत्त्वज्ञानवतो वीतरागादिकस्य । ननु तत्त्वज्ञानवतोऽपि शरौरित्वाद्दलवत्तर विषयोपनिपातात् सुखदुःखतगोगोत्पादात्तदधीनौ रागद्वेषौ दुर्वारौ । अलंप्रत्ययादिना न तौ तथा च श्रुतिः “ असतो रज्यन्नषिश्वोपभुङ" इति चेत् ? अस्त्वेवम् । तथापि भोगेनोपान्तकर्मार्थं प्रवर्त्तमानस्य विहितनिषिद्धानुष्ठानादपूर्वधर्माधर्मोपचयो दुर्वार इति चेदत्रापीदमेवोत्तरं श्रनात्मन्यात्मग्रहो निदानं संसारम्येति मिथ्याज्ञानवासनासहायं हि कर्म धर्माधर्मजननक्षममिति ।
"
ननु मिथ्याज्ञानवासनाया धर्माधर्मजनकत्वे मानाभावः । अथ भोगेन कर्मक्षयार्थं प्रवृत्तस्य तत्त्वज्ञानवतोऽप्यपूर्वधर्माधर्मोत्पादे मोक्षासम्भवात् श्रुतिप्रामाण्यान्यथानुपपत्त्या तत्सिद्धिरिति चेन्न । श्राहत्यैव तत्त्वज्ञानस्य धर्मनाशकत्वात् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति स्मृतेनैवमिति चेत् । न । प्रायश्चित्तेनापि दुरितनाशात् । न च तस्याधिकारसम्पत्तिरेव प्रयोजनं, अधिकाराविरोधिन्यपि पातके तदिधानात् क्वचिच्च प्राणान्तिकस्यापि तस्य विधानाच्च । न च जन्मान्तरीणमपि पातकमधिकारं विरुणद्धि ।
2
For Private and Personal Use Only