________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
प्रतिकूले च द्वेषः सदा स्यादित्यर्थः । रागाभावे हेतुमाह । पुत्रेति । तैः पुत्रादिभिः । द्वेषाभावे हेतुमाह । बेदादीति । केवले त्वात्मनि छेदादिदुःखानुभवो नास्तौति न तद्धेतुषु द्वेष इत्यर्थः । ननु केवलात्मदर्शिनोऽपि विधिनिषेधबलाद्या गहिंसादौ प्रवृत्तिनिवृत्तौ स्थातामेवात ह । विधीति । तत्प्रवृत्तेरिति । विधिप्रवृत्तेरित्यर्थः । जन्म उच्चाभिजने, जातिः ब्राह्मणत्वादिः, वयो दीर्घायुषं न चैतसर्वं वीतरागस्य काम्यमित्यर्थः । तत इति । तथाच तद्विवेकार्थं मुमुक्षुणा यतितव्यमेवेति भावः । ननु रागद्वेषयोरपि मिथ्याज्ञानं निदानं तत्संस्कारस्य चानादेः कथमुच्छेद इत्यत श्राह । मिथ्याज्ञानमिति । तत्त्वज्ञानमेव कुत इत्यत आह । तच्चेति । ननु निवर्ततां मिथ्याज्ञानं, तथापि रागद्वेषयोश्च कुतो निवृत्तिरित्यत श्राह । कारणनिवृत्ताविति । कारणस्य मिथ्याज्ञानस्य निवृत्त्या दोषो दोषनिवृत्त्या च प्रवृत्तिस्तनिवृत्त्या च जन्म, कार्यं निवर्तते नोत्पश्यते दूत्यभिमतम् । तथापि पूर्वोत्पन्नधर्माधर्माभ्यां पुनः संसारापत्तिस्तदवस्येवेत्यत श्राह । उत्पन्नश्चेति । न्यायानुसारेति । एतदर्थं मननानुकूलन्यायानुसरणमित्यर्थः ।
भगौ० टौ० । अत्रेति । श्रात्मविवेकस्य मोक्षसाधनत्वे इत्यर्थः । शरीरमेवेति । तवाम्प्रत्ययस्य सार्वलौकिकत्वादित्यर्थः । एतत् रागदेषवत्त्वम् । तत्र रागाद्व्यवच्छेत्तुमाह । निरुपाधेरिति । पुत्रादेः शरौरघटितत्वादित्यर्थः । द्वेषाभावमुपपादयति । वेदेति । जन्मेति । जन्म शरीरं, जातिर्ब्राह्मणत्वादिः, संस्कार उपनयनादिः, विधिनिषेधशास्त्रयोर्जात्यादिपुरस्कारेणेत्यर्थः । यद्यपि भिन्नात्मदर्शिनो
For Private and Personal Use Only