________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८१६
रघु० टौ० । उपाधिः शरीरादिः । विप्रयोगो व्यवधानं, वैदेश्यं वा । उपेक्षात दूति । श्रात्मनः प्रतिपत्तये यत्नाभावादप्रतिपत्तिरित्यर्थः । कृतैवेति । यन्नाभावेऽप्यहं गौरोऽहं सुखोत्यादिप्रतिपत्तेः सन्तन्यमानत्वादित्यर्थः । तत्त्वज्ञानविरहेऽपि संसारस्यानुवर्तमानत्वादिति भावः । नित्यविभोरात्मनो हानवरुपादानमप्यशक्यमित्याशयेन पृच्छति । किमिति ।
किं पुनरच प्रमाणं ? न्यायः, आम्नायश्च । शरौरमेव हि तावन्मूर्धाभिषिक्तमनात्मानमात्मानं मन्यमानस्य तदुपादाय तदनुकूलचैलेाक्यविषया तृष्णा विजृम्भते, तथा तत्प्रतिकूलविषयो हेयः । न चैतत्केवलात्मदर्शिनः सम्भवति, निरुपाधेः पुत्रवित्तलाभाभावात्, तैरनुपकार्य्यत्वात्, छेदक्लेददाहशोषाद्यनुपपत्तेः विधिनिषेधानधिकाराच्च । जन्मजातिवयोवित्तसंस्काराद्युपग्रहेण तत्प्रवृत्तेः । ततोऽनात्मन्यात्मग्रहो निदानं संसारस्य, मिथ्याज्ञानं च तत्त्वज्ञानान्निवर्तते, तच्च श्रवणमननादिक्रमेणोत्पद्यते, कारणनिवृत्तौ च कार्यं न जायते, उत्पन्नश्च धर्माधर्मप्रचय भोगेन क्षीयत इति न्यायार्थसारसङ्क्षेपः ॥
शङ्क० टौ० । श्रत्रेति । श्रनात्मनः शरीरादेर्भेदेनात्मा प्रतिपत्तव्य इत्यत्र किं प्रमाणमित्यर्थः । न्यायमत्र सङ्क्षेपतो दर्शयति । भरौरमेवेति । शरौरमेवात्मेति मन्यमानस्य तदनुकूले रागस्तत्
For Private and Personal Use Only