________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
आत्मतत्त्वविवेके मौके
कृता श्रवणादौ यत्नो न कृतस्तथाऽप्यात्महानं न सिद्धमित्यर्थः । निष्प्रयोजनत्वादिति विवृणोति। निष्प्रयोजनं चेति । किमर्थमिति । हेयमिति शेषः । सोपा धित्वेति। पुनः शरीरादिप्राप्यापत्तिशङ्कयेत्यर्थः । बौजाभावादिति। संसारबौज धर्माधौं तदभावादेव न पुनरावृत्तिरित्यर्थः। निरूपाधेरात्मनः प्रतिपत्त्यर्थं प्रणिधानं किमर्थमिति पृच्छति। कुत इति। मननाथै न्यायानुसरणेन(१) मनने जाते भावनया निदिध्यासनेन साक्षात्कारानिःश्रेयससिद्ध्यर्थमित्याह । तथा सतौति । नित्यविभुतया हानवदपात्तस्यैवोपादानमप्यशक्यमित्याह । किमिति । विवेक इति । भेदेन ज्ञानमित्यर्थः ।
भगौ० टी० । सोपाधिरिति। शरोरेन्द्रियायपाधिमानित्यर्थः । अशक्यत्वं विवृणोति। न हौति। नापौति । यद्यपि व्यापकस्यापि विभागरूपो विप्रयोगोऽस्त्येव, तथापि पुनस्तस्य संयोगान्तरमावश्यकमिति भावः । यथायथेति । स्वात्मविषयाप्रतिपत्त्यर्थं यत्नस्तविषयज्ञानजन्य इत्यात्मप्रतिपत्तिरवर्जनौयेत्यर्थः । उपेक्षात इति। श्रात्मप्रतिपत्त्यर्थं न यत्न उपेयत इति श्रात्मज्ञानं न स्यादित्यर्थः । कृतैवेति । यत्नाभावेऽप्यात्मज्ञानस्यावश्यकत्वाच्छरीरादिभिन्नात्मज्ञानस्य चाद्य यावदत्तत्वेन संसारस्यैव सत्त्वादित्यर्थः । पुनरिति । मोक्षेऽप्यात्मनो निदानस्य सत्त्वात् पुनर्दुःखादिमत्त्वशङ्कया मोक्ष इत्यर्थः । बौजेति । तत्मत्त्वेऽपि मुक्रस्यादृष्टाभावादित्यर्थः । भावनेति । शरीरादिभिन्नात्मनिदिध्यासनेनेत्यर्थः । किमिति । हानवदुपादानमप्यात्मनोऽशक्यमित्यर्थः ।
(१) न्यायानुसार इति २ पु० पा० ।
For Private and Personal Use Only